युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद 001a
दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत् 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर 002c
दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत 003a
पुरा वसिष्ठो भगवान्पितामहमपृच्छत 003c
ततः पद्मोद्भवो राजन्देवदेवः पितामहः 004a
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् 004c
नाबीजं जायते किञ्चिन्न बीजेन विना फलम् 005a
बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् 005c
यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः 006a
सुकृते दुष्कृते वापि तादृशं लभते फलम् 006c
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् 007a
तथा पुरुषकारेण विना दैवं न सिध्यति 007c
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् 008a
क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते 008c
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः 009a
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च 009c
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा 010a
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् 010c
कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः 011a
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् 011c
तपसा रूपसौभाग्यं रत्नानि विविधानि च 012a
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना 012c
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता 013a
सर्वं पुरुषकारेण कृतेनेहोपपद्यते 013c
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः 014a
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः 014c
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् 015a
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः 015c
शौचेन लभते विप्रः क्षत्रियो विक्रमेण च 016a
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् 016c
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् 017a
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् 017c
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः 018a
स एष भगवान्विष्णुः समुद्रे तप्यते तपः 018c
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् 019a
लोको दैवं समालम्ब्य उदासीनो भवेन्न तु 019c
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते 020a
वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना 020c
न तथा मानुषे लोके भयमस्ति शुभाशुभे 021a
यथा त्रिदशलोके हि भयमल्पेन जायते 021c
कृतः पुरुषकारस्तु दैवमेवानुवर्तते 022a
न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति 022c
यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि 023a
कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति 023c
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् 024a
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया 024c
ऋषीणां देवतानां च सदा भवति विग्रहः 025a
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते 025c
कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते 026a
एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः 026c
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः 027a
आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च 027c
कृतं च विकृतं किञ्चित्कृते कर्मणि सिध्यति 028a
सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते 028c
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते 029a
पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति 029c
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ 030a
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः 030c
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा 031a
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः 031c
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः 032a
महर्षिशापात्सौदासः पुरुषादत्वमागतः 032c
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ 033a
न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा 033c
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः 034a
मिथ्याभिधानेनैकेन रसातलतलं गतः 034c
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः 035a
विष्णोः पुरुषकारेण पातालशयनः कृतः 035c
शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः 036a
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः 036c
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च 037a
वैशम्पायनविप्रर्षिः किं दैवेन निवारितः 037c
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे 038a
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः 038c
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः 039a
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे 039c
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः 040a
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् 040c
तपोनियमसंयुक्ता मुनयः संशितव्रताः 041a
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा 041c
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् 042a
लोभमोहसमापन्नं न दैवं त्रायते नरम् 042c
यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान् 043a
तथा कर्मसमायुक्तं दैवं साधु विवर्धते 043c
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति 044a
तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति 044c
विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम् 045a
सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं व्ययगुणमपि साधुं कर्मणा संश्रयन्ते 045c
भवति मनुजलोकाद्देवलोको विशिष्टो बहुतरसुसमृद्ध्या मानुषाणां गृहाणि 046a
पितृवनभवनाभं दृश्यते चामराणां न च फलति विकर्मा जीवलोकेन दैवम् 046c
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं गुरुमिव कृतमग्र्यं कर्म संयाति दैवम् 047a
अनुपहतमदीनं कामकारेण दैवं नयति पुरुषकारः सञ्चितस्तत्र तत्र 047c
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम 048a
फलं पुरुषकारस्य सदा सन्दृश्य तत्त्वतः 048c
अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा 049a
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् 049c