युधिष्ठिर उवाच 001
आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च 001a
श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः 002a
सविषं काण्डमादाय मृगयामास वै मृगम् 002c
तत्र चामिषलुब्धेन लुब्धकेन महावने 003a
अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः 003c
तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा 004a
महान्वनतरुर्विद्धो मृगं तत्र जिघांसता 004c
स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः 005a
उत्सृज्य फलपत्राणि पादपः शोषमागतः 005c
तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः 006a
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः 006c
निष्प्रचारो निराहारो ग्लानः शिथिलवागपि 007a
कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत 007c
तमुदारं महासत्त्वमतिमानुषचेष्टितम् 008a
समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः 008c
ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः 009a
तिर्यग्योनावसम्भाव्यमानृशंस्यं समास्थितः 009c
अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु 010a
प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते 010c
ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः 011a
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह 011c
शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया 012a
पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम् 012c
अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् 013a
स्वागतं देवराजाय विज्ञातस्तपसा मया 013c
ततो दशशताक्षेण साधु साध्विति भाषितम् 014a
अहो विज्ञानमित्येवं तपसा पूजितस्ततः 014c
तमेवं शुभकर्माणं शुकं परमधार्मिकम् 015a
विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः 015c
निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम् 016a
किमर्थं सेवसे वृक्षं यदा महदिदं वनम् 016c
अन्येऽपि बहवो वृक्षाः पत्रसञ्छन्नकोटराः 017a
शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने 017c
गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम् 018a
विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् 018c
तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् 019a
सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह 019c
अनतिक्रमणीयानि दैवतानि शचीपते 020a
यत्राभवस्तत्र भवस्तन्निबोध सुराधिप 020c
अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः 021a
बालभावे च सङ्गुप्तः शत्रुभिश्च न धर्षितः 021c
किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ 022a
आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च 022c
अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम् 023a
अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति 023c
त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान् 024a
अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः 024c
नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः 025a
समर्थमुपजीव्येमं त्यजेयं कथमद्य वै 025c
तस्य वाक्येन सौम्येन हर्षितः पाकशासनः 026a
शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः 026c
वरं वृणीष्वेति तदा स च वव्रे वरं शुकः 027a
आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम् 027c
विदित्वा च दृढां शक्रस्तां शुके शीलसम्पदम् 028a
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् 028c
ततः फलानि पत्राणि शाखाश्चापि मनोरमाः 029a
शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः 029c
शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह 030a
आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् 030c
एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः 031a
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः 031c