भीष्म उवाच 001
श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा 001a
ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च 001c
भरतस्यान्वये चैवाजमीढो नाम पार्थिवः 002a
बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः 002c
तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः 003a
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः 003c
तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः 004a
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः 004c
वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः 005a
कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः 005c
कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः 006a
अपुत्रः स महाबाहुर्वनवासमुदावसत् 006c
कन्या जज्ञे सुता तस्य वने निवसतः सतः 007a
नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि 007c
तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः 008a
ऋचीक इति विख्यातो विपुले तपसि स्थितः 008c
स तां न प्रददौ तस्मै ऋचीकाय महात्मने 009a
दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः 009c
प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः 010a
शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् 010c
ऋचीक उवाच 011
किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप 011a
दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा 011c
गाधिरुवाच 012
चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् 012a
एकतः श्यामकर्णानां सहस्रं देहि भार्गव 012c
भीष्म उवाच 013
ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः 013a
अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् 013c
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् 014a
सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम 014c
तथेति वरुणो देव आदित्यो भृगुसत्तमम् 015a
उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः 015c
ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् 016a
गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् 016c
अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम् 017a
अश्वतीर्थं तदद्यापि मानवाः परिचक्षते 017c
तत्तदा गाधये तात सहस्रं वाजिनां शुभम् 018a
ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः 018c
ततः स विस्मितो राजा गाधिः शापभयेन च 019a
ददौ तां समलङ्कृत्य कन्यां भृगुसुताय वै 019c
जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः 020a
सा च तं पतिमासाद्य परं हर्षमवाप ह 020c
स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत 021a
छन्दयामास चैवैनां वरेण वरवर्णिनीम् 021c
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम् 022a
अथ तामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीम् 022c
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति 023a
अपत्यस्य प्रदानेन समर्थः स महातपाः 023c
ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत् 024a
मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत् 024c
गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः 025a
जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा 025c
तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे 026a
अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् 026c
ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम् 027a
परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः 027c
चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते 028a
त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः 028c
ततः सत्यवती हृष्टा मातरं प्रत्यभाषत 029a
यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् 029c
तामुवाच ततो माता सुतां सत्यवतीं तदा 030a
पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम 030c
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः 031a
एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च 031c
व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते 032a
यदि प्रमाणं वचनं मम मातुरनिन्दिते 032c
व्यक्तं भगवता चात्र कृतमेवं भविष्यति 033a
ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे 033c
कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय 033e
तथा च कृतवत्यौ ते माता सत्यवती च सा 034a
अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर 034c
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः 035a
उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः 035c
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति 036a
व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे 036c
मया हि विश्वं यद्ब्रह्म त्वच्चरौ सन्निवेशितम् 037a
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् 037c
त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि 038a
सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया 038c
व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च 039a
तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति 039c
क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि 040a
न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि 040c
सा श्रुत्वा शोकसन्तप्ता पपात वरवर्णिनी 041a
भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता 041c
प्रतिलभ्य च सा सञ्ज्ञां शिरसा प्रणिपत्य च 042a
उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् 042c
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर 043a
प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः 043c
कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति 044a
न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः 044c
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः 045a
ततः सा जनयामास जमदग्निं सुतं शुभम् 045c
विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी 046a
ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम् 046c
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः 047a
क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः 047c
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः 048a
तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च 048c
मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् 049a
अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा 049c
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः 050a
उलूको यमदूतश्च तथर्षिः सैन्धवायनः 050c
कर्णजङ्घश्च भगवान्गालवश्च महानृषिः 051a
ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च 051c
लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः 052a
वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च 052c
अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः 053a
चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः 053c
श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा 054a
कारीषिरथ संश्रुत्यः परपौरवतन्तवः 054c
महानृषिश्च कपिलस्तथर्षिस्तारकायनः 055a
तथैव चोपगहनस्तथर्षिश्चार्जुनायनः 055c
मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः 056a
सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि 056c
आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा 057a
नवतन्तुर्बकनखः शयोनरतिरेव च 057c
शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः 058a
उज्जयोनिरदापेक्षी नारदी च महानृषिः 058c
विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः 058e
तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः 059a
ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर 059c
एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ 060a
विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः 060c
यत्र यत्र च सन्देहो भूयस्ते राजसत्तम 061a
तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् 061c