युधिष्ठिर उवाच 001
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप 001a
कथं प्राप्तं महाराज क्षत्रियेण महात्मना 001c
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ 002a
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह 002c
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः 003a
हतं पुत्रशतं सद्यस्तपसा प्रपितामह 003c
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः 004a
मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः 004c
महान्कुशिकवंशश्च ब्रह्मर्षिशतसङ्कुलः 005a
स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्मणसंस्तुतः 005c
ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः 006a
विमोक्षितो महासत्रात्पशुतामभ्युपागतः 006c
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वात्मतेजसा 007a
पुत्रतामनुसम्प्राप्तो विश्वामित्रस्य धीमतः 007c
नाभिवादयते ज्येष्ठं देवरातं नराधिप 008a
पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः 008c
त्रिशङ्कुर्बन्धुसन्त्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् 009a
अवाक्शिरा दिवं नीतो दक्षिणामाश्रितो दिशम् 009c
विश्वामित्रस्य विपुला नदी राजर्षिसेविता 010a
कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता 010c
तपोविघ्नकरी चैव पञ्चचूडा सुसम्मता 011a
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता 011c
तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा 012a
आत्मानं मज्जयामास विपाशः पुनरुत्थितः 012c
तदाप्रभृति पुण्या हि विपाशाभून्महानदी 013a
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः 013c
वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः 014a
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत् 014c
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च 015a
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् 015c
तस्यैतानि च कर्माणि तथान्यानि च कौरव 016a
क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम 016c
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ 017a
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् 017c
एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि 018a
मतङ्गस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे 018c
स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ 019a
चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात् 019c