युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद 001a
श्रुतं मे महदाख्यानमिदं मतिमतां वर 001c
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप 002a
कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि 002c
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः 003a
इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव 003c
भीष्म उवाच 004
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 004a
यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः 004c
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः 005a
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः 005c
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत 006a
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः 006c
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः 007a
सत्ये तपसि दाने च यस्य नित्यं रतं मनः 007c
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः 008a
धनुर्वेदे च वेदे च निरतो योऽभवत्सदा 008c
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः 009a
महाभागो महातेजा महासत्त्वो महाबलः 009c
पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः 010a
धर्मात्मा कोशवांश्चापि देवराज इवापरः 010c
सुवीरस्य तु पुत्रोऽभूत्सर्वसङ्ग्रामदुर्जयः 011a
दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः 011c
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः 012a
दुर्योधनो नाम महान्राजासीद्राजसत्तम 012c
तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः 013a
विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत 013c
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः 014a
नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत् 014c
न तस्य विषये चाभूत्कृपणो नापि दुर्गतः 015a
व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित् 015c
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः 016a
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः 016c
यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसङ्गरः 017a
न चावमन्ता दाता च वेदवेदाङ्गपारगः 017c
तं नर्मदा देवनदी पुण्या शीतजला शिवा 018a
चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत 018c
तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना 019a
नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना 019c
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर 020a
दुर्योधनसुता यादृगभवद्वरवर्णिनी 020c
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् 021a
भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम् 021c
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः 022a
न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् 022c
ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः 023a
ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा 023c
दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः 024a
येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव 024c
न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः 025a
भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम् 025c
एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ 026a
नियता वाग्यताश्चैव पावकं शरणं ययुः 026c
तान्दर्शयामास तदा भगवान्हव्यवाहनः 027a
स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः 027c
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् 028a
वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति 028c
ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् 029a
ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना 029c
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् 030a
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् 030c
प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् 031a
नित्यं सान्निध्यमिह ते चित्रभानो भवेदिति 031c
तमाह भगवानग्निरेवमस्त्विति पार्थिवम् 031e
ततः सान्निध्यमध्यापि माहिष्मत्यां विभावसोः 032a
दृष्टं हि सहदेवेन दिशो विजयता तदा 032c
ततस्तां समलङ्कृत्य कन्यामहतवाससम् 033a
ददौ दुर्योधनो राजा पावकाय महात्मने 033c
प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम् 034a
विधिना वेददृष्टेन वसोर्धारामिवाध्वरे 034c
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया 035a
अभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे 035c
तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनः 036a
शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम् 036c
अथौघवान्नाम नृपो नृगस्यासीत्पितामहः 037a
तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् 037c
तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् 038a
सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् 038c
स गृहस्थाश्रमरतस्तया सह सुदर्शनः 039a
कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः 039c
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो 040a
प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते 040c
तामथौघवतीं राजन्स पावकसुतोऽब्रवीत् 041a
अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन 041c
येन येन च तुष्येत नित्यमेव त्वयातिथिः 042a
अप्यात्मनः प्रदानेन न ते कार्या विचारणा 042c
एतद्व्रतं मम सदा हृदि सम्परिवर्तते 043a
गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम् 043c
प्रमाणं यदि वामोरु वचस्ते मम शोभने 044a
इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा 044c
निष्क्रान्ते मयि कल्याणि तथा सन्निहितेऽनघे 045a
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव 045c
तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः 046a
न मे त्वद्वचनात्किञ्चिदकर्तव्यं कथञ्चन 046c
जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् 047a
पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा 047c
इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने 048a
अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा 048c
आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि 049a
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः 049c
इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी 050a
विधिना प्रतिजग्राह वेदोक्तेन विशां पते 050c
आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये 051a
प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते 051c
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् 052a
त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर 052c
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मतः 053a
प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् 053c
तथा सञ्छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया 054a
नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः 054c
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः 055a
तथेति लज्जमाना सा तमुवाच द्विजर्षभम् 055c
ततो रहः स विप्रर्षिः सा चैवोपविवेश ह 056a
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः 056c
अथेध्मान्समुपादाय स पावकिरुपागमत् 057a
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः 057c
ततस्त्वाश्रममागम्य स पावकसुतस्तदा 058a
तामाजुहावौघवतीं क्वासि यातेति चासकृत् 058c
तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा 059a
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती 059c
उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च 060a
तूष्णीम्भूताभवत्साध्वी न चोवाचाथ किञ्चन 060c
अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः 061a
क्व सा साध्वी क्व सा याता गरीयः किमतो मम 061c
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता 062a
कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा 062c
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् 063a
अतिथिं विद्धि सम्प्राप्तं पावके ब्राह्मणं च माम् 063c
अनया छन्द्यमानोऽहं भार्यया तव सत्तम 064a
तैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः 064c
अनेन विधिना सेयं मामर्चति शुभानना 065a
अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति 065c
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात् 066a
हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् 066c
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा 067a
त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् 067c
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम 068a
गृहस्थस्य हि धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम् 068c
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति 069a
नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः 069c
प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु 070a
अतिथिभ्यो मया देयमिति मे व्रतमाहितम् 070c
निःसन्दिग्धं मया वाक्यमेतत्ते समुदाहृतम् 071a
तेनाहं विप्र सत्येन स्वयमात्मानमालभे 071c
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 072a
बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश 072c
नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताः 073a
सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर 073c
यथैषा नानृता वाणी मयाद्य समुदाहृता 074a
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा 074c
ततो नादः समभवद्दिक्षु सर्वासु भारत 075a
असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः 075c
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः 076a
वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः 076c
स्वरेण विप्रः शैक्षेण त्रील्ँलोकाननुनादयन् 077a
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः 077c
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ 078a
प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि 078c
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति 079a
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः 079c
न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम 080a
पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत 080c
रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा 081a
अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् 081c
एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी 082a
पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति 082c
अर्धेनौघवती नाम त्वामर्धेनानुयास्यति 083a
शरीरेण महाभागा योगो ह्यस्या वशे स्थितः 083c
अनया सह लोकांश्च गन्तासि तपसार्जितान् 084a
यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् 084c
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे 085a
निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् 085c
पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवः 086a
गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ 086c
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः 087a
तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः 087c
भीष्म उवाच 088
शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् 088a
युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् 088c
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च 089a
बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च 089c
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै 090a
ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय 090c
अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् 091a
न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः 091c
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् 092a
स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः 092c
एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम् 093a
यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् 093c
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् 094a
बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् 094c
य इदं कथयेद्विद्वानहन्यहनि भारत 095a
सुदर्शनस्य चरितं पुण्याल्ँलोकानवाप्नुयात् 095c