युधिष्ठिर उवाच 001
शमो बहुविधाकारः सूक्ष्म उक्तः पितामह 001a
न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् 001c
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ 002a
स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि 002c
शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च 003a
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् 003c
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् 004a
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् 004c
अतः कष्टतरं किं नु मत्कृते यत्पितामहः 005a
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे 005c
तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः 005e
वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः 006a
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप 006c
अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा 007a
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ 007c
भीष्म उवाच 008
परतन्त्रं कथं हेतुमात्मानमनुपश्यसि 008a
कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् 008c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 009a
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः 009c
गौतमी नाम कौन्तेय स्थविरा शमसंयुता 010a
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् 010c
अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः 011a
लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् 011c
तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः 012a
ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना 012c
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा 013a
न ह्ययं बालहा पापश्चिरं जीवितुमर्हति 013c
गौतम्युवाच 014
विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया 014a
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् 014c
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः 015a
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके 015c
न चामृत्युर्भविता वै हतेऽस्मिन्को वात्ययः स्यादहतेऽस्मिञ्जनस्य 016a
अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्मृत्योर्लोकं को नु गच्छेदनन्तम् 016c
लुब्धक उवाच 017
जानाम्येवं नेह गुणागुणज्ञाः सर्वे नियुक्ता गुरवो वै भवन्ति 017a
स्वस्थस्यैते तूपदेशा भवन्ति तस्मात्क्षुद्रं सर्पमेनं हनिष्ये 017c
समीप्सन्तः कालयोगं त्यजन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति 018a
श्रेयः क्षयः शोचतां नित्यशो हि तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् 018c
गौतम्युवाच 019
न चैवार्तिर्विद्यतेऽस्मद्विधानां धर्मारामः सततं सज्जनो हि 019a
नित्यायस्तो बालजनो न चास्ति धर्मो ह्येष प्रभवाम्यस्य नाहम् 019c
न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना 020a
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः 020c
लुब्धक उवाच 021
हत्वा लाभः श्रेय एवाव्ययं स्यात्सद्यो लाभो बलवद्भिः प्रशस्तः 021a
कालाल्लाभो यस्तु सद्यो भवेत हते श्रेयः कुत्सिते त्वीदृशे स्यात् 021c
गौतम्युवाच 022
कार्थप्राप्तिर्गृह्य शत्रुं निहत्य का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा 022a
कस्मात्सौम्य भुजगे न क्षमेयं मोक्षं वा किं कारणं नास्य कुर्याम् 022c
लुब्धक उवाच 023
अस्मादेकस्माद्बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः 023a
कृतागसं धर्मविदस्त्यजन्ति सरीसृपं पापमिमं जहि त्वम् 023c
गौतम्युवाच 024
नास्मिन्हते पन्नगे पुत्रको मे सम्प्राप्स्यते लुब्धक जीवितं वै 024a
गुणं चान्यं नास्य वधे प्रपश्ये तस्मात्सर्पं लुब्धक मुञ्च जीवम् 024c
लुब्धक उवाच 025
वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै यज्ञं हत्वा भागमवाप चैव 025a
शूली देवो देववृत्तं कुरु त्वं क्षिप्रं सर्पं जहि मा भूद्विशङ्का 025c
भीष्म उवाच 026
असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति 026a
लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् 026c
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः 027a
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः 027c
को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश 028a
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् 028c
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया 029a
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम् 029c
लुब्धक उवाच 030
यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् 030a
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी 030c
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा 031a
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग 031c
किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग 032a
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम 032c
सर्प उवाच 033
सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा 033a
तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव 033c
अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः 034a
कार्यकारणसन्देहो भवत्यन्योन्यचोदनात् 034c
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी 035a
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् 035c
लुब्धक उवाच 036
कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत 036a
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः 036c
असत्यपि कृते कार्ये नेह पन्नग लिप्यते 037a
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे 037c
सर्प उवाच 038
कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे 038a
तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः 038c
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः 039a
अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने 039c
लुब्धक उवाच 040
वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् 040a
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम 040c
सर्प उवाच 041
यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः 041a
न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् 041c
भीष्म उवाच 042
तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते 042a
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् 042c
कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम् 043a
विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः 043c
यथा वायुर्जलधरान्विकर्षति ततस्ततः 044a
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः 044c
सात्त्विका राजसाश्चैव तामसा ये च केचन 045a
भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु 045c
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि 046a
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् 046c
प्रवृत्तयश्च या लोके तथैव च निवृत्तयः 047a
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् 047c
आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः 048a
अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा 048c
सरितः सागराश्चैव भावाभावौ च पन्नग 049a
सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः 049c
एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे 050a
अथ चैवङ्गते दोषो मयि त्वमपि दोषवान् 050c
सर्प उवाच 051
निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम् 051a
त्वयाहं चोदित इति ब्रवीम्येतावदेव तु 051c
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते 052a
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् 052c
निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा 053a
मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम् 053c
भीष्म उवाच 054
सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् 054a
नानागसं मां पाशेन सन्तापयितुमर्हसि 054c
लुब्धक उवाच 055
मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम 055a
नैव तावद्विदोषत्वं भवति त्वयि पन्नग 055c
मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने 056a
उभयं कारणं मन्ये न कारणमकारणम् 056c
धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् 057a
त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् 057c
मृत्युरुवाच 058
विवशौ कालवशगावावां तद्दिष्टकारिणौ 058a
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि 058c
लुब्धक उवाच 059
युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ 059a
हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् 059c
मृत्युरुवाच 060
याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः 060a
पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः 060c
तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ 061a
नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् 061c
भीष्म उवाच 062
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये 062a
अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम् 062c
काल उवाच 063
नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः 063a
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः 063c
अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् 064a
प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा 064c
यदनेन कृतं कर्म तेनायं निधनं गतः 065a
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् 065c
कर्मदायादवाल्ँलोकः कर्मसम्बन्धलक्षणः 066a
कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् 066c
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति 067a
एवमात्मकृतं कर्म मानवः प्रतिपद्यते 067c
यथा छायातपौ नित्यं सुसम्बद्धौ निरन्तरम् 068a
तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः 068c
एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान् 069a
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् 069c
तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप 070a
स्वकर्मप्रत्ययाल्ँलोकान्मत्वार्जुनकमब्रवीत् 070c
नैव कालो न भुजगो न मृत्युरिह कारणम् 071a
स्वकर्मभिरयं बालः कालेन निधनं गतः 071c
मया च तत्कृतं कर्म येनायं मे मृतः सुतः 072a
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् 072c
भीष्म उवाच 073
ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः 073a
अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी 073c
एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप 074a
स्वकर्मप्रत्ययाल्ँलोकांस्त्रीन्विद्धि मनुजर्षभ 074c
न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै 075a
कालेन तत्कृतं विद्धि विहता येन पार्थिवाः 075c
वैशम्पायन उवाच 076
इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः 076a
युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् 076c