भीष्म उवाच 001
स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः 001a
दीक्षाकाङ्क्षी तदा राजंश्च्यवनं भार्गवं श्रितः 001c
स तेन कृतसंस्कारो धर्ममेवोपतस्थिवान् 002a
तथैव च कथामेतां राजन्कथितवांस्तदा 002c
भार्गवेणापि राजेन्द्र जनकस्य निवेशने 003a
कथैषा कथिता पुण्या नारदाय महात्मने 003c
नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने 004a
कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा 004c
देवराजेन च पुरा कथैषा कथिता शुभा 005a
समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप 005c
यदा च मम रामेण युद्धमासीत्सुदारुणम् 006a
वसुभिश्च तदा राजन्कथेयं कथिता मम 006c
पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते 007a
कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर 007c
तदेष परमो धर्मो यन्मां पृच्छसि भारत 008a
असन्नधीरनाकाङ्क्षी धर्मार्थकरणे नृप 008c
स च किल कृतनिश्चयो द्विजाग्र्यो भुजगपतिप्रतिदेशितार्थकृत्यः 009a
यमनियमसमाहितो वनान्तं परिगणितोञ्छशिलाशनः प्रविष्टः 009c