ब्राह्मण उवाच 001
आश्चर्यं नात्र सन्देहः सुप्रीतोऽस्मि भुजङ्गम 001a
अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः 001c
स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम 002a
स्मरणीयोऽस्मि भवता सम्प्रेषणनियोजनैः 002c
नाग उवाच 003
अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् 003a
उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः 003c
उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ 004a
मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि ब्राह्मण 004c
न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह 005a
गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा 005c
त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः 006a
लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ 006c
ब्राह्मण उवाच 007
एवमेतन्महाप्राज्ञ विज्ञातार्थ भुजङ्गम 007a
नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम् 007c
य एवाहं स एव त्वमेवमेतद्भुजङ्गम 008a
अहं भवांश्च भूतानि सर्वे सर्वत्रगाः सदा 008c
आसीत्तु मे भोगपते संशयः पुण्यसञ्चये 009a
सोऽहमुञ्छव्रतं साधो चरिष्याम्यर्थदर्शनम् 009c
एष मे निश्चयः साधो कृतः कारणवत्तरः 010a
आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम 010c