सूर्य उवाच 001
नैष देवोऽनिलसखो नासुरो न च पन्नगः 001a
उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः 001c
एष मूलफलाहारः शीर्णपर्णाशनस्तथा 002a
अब्भक्षो वायुभक्षश्च आसीद्विप्रः समाहितः 002c
ऋचश्चानेन विप्रेण संहितान्तरभिष्टुताः 003a
स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः 003c
असन्नधीरनाकाङ्क्षी नित्यमुञ्छशिलाशनः 004a
सर्वभूतहिते युक्त एष विप्रो भुजङ्गम 004c
न हि देवा न गन्धर्वा नासुरा न च पन्नगाः 005a
प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम् 005c
नाग उवाच 006
एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज 006a
संसिद्धो मानुषः कायो योऽसौ सिद्धगतिं गतः 006c
सूर्येण सहितो ब्रह्मन्पृथिवीं परिवर्तते 006e