ब्राह्मण उवाच 001
विवस्वतो गच्छति पर्ययेण वोढुं भवांस्तं रथमेकचक्रम् 001a
आश्चर्यभूतं यदि तत्र किं चिद्दृष्टं त्वया शंसितुमर्हसि त्वम् 001c
नाग उवाच 002
यस्य रश्मिसहस्रेषु शाखास्विव विहङ्गमाः 002a
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह 002c
यतो वायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान् 003a
विजृम्भत्यम्बरे विप्र किमाश्चर्यतरं ततः 003c
शुक्रो नामासितः पादो यस्य वारिधरोऽम्बरे 004a
तोयं सृजति वर्षासु किमाश्चर्यमतः परम् 004c
योऽष्टमासांस्तु शुचिना किरणेनोज्झितं पयः 005a
पर्यादत्ते पुनः काले किमाश्चर्यमतः परम् 005c
यस्य तेजोविशेषेषु नित्यमात्मा प्रतिष्ठितः 006a
यतो बीजं मही चेयं धार्यते सचराचरम् 006c
यत्र देवो महाबाहुः शाश्वतः परमोऽक्षरः 007a
अनादिनिधनो विप्र किमाश्चर्यमतः परम् 007c
आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु 008a
विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात् 008c
पुरा मध्याह्नसमये लोकांस्तपति भास्करे 009a
प्रत्यादित्यप्रतीकाशः सर्वतः प्रत्यदृश्यत 009c
स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन् 010a
आदित्याभिमुखोऽभ्येति गगनं पाटयन्निव 010c
हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः 011a
अनिर्देश्येन रूपेण द्वितीय इव भास्करः 011c
तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता 012a
तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना 012c
ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम् 013a
एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम् 013c
तत्र नः संशयो जातस्तयोस्तेजःसमागमे 014a
अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः 014c
ते वयं जातसन्देहाः पर्यपृच्छामहे रविम् 015a
क एष दिवमाक्रम्य गतः सूर्य इवापरः 015c