भीष्म उवाच 001
स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति 001a
तमेव मनसा ध्यायन्कार्यवत्तां विचारयन् 001c
तमभिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर 002a
प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः 002c
भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि 003a
इह त्वमभिसम्प्राप्तः कस्यार्थे किं प्रयोजनम् 003c
आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज 004a
विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे 004c
ब्राह्मण उवाच 005
धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम् 005a
पद्मनाभं द्विजश्रेष्ठं तत्र मे कार्यमाहितम् 005c
तस्य चाहमसान्निध्यं श्रुतवानस्मि तं गतम् 006a
स्वजनं तं प्रतीक्षामि पर्जन्यमिव कर्षकः 006c
तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम् 007a
वर्तयाम्ययुतं ब्रह्म योगयुक्तो निरामयः 007c
नाग उवाच 008
अहो कल्याणवृत्तस्त्वं साधु सज्जनवत्सलः 008a
श्रवाढ्यस्त्वं महाभाग परं स्नेहेन पश्यसि 008c
अहं स नागो विप्रर्षे यथा मां विन्दते भवान् 009a
आज्ञापय यथा स्वैरं किं करोमि प्रियं तव 009c
भवन्तं स्वजनादस्मि सम्प्राप्तं श्रुतवानिह 010a
अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज 010c
सम्प्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति 011a
विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुमर्हसि 011c
वयं हि भवता सर्वे गुणक्रीता विशेषतः 012a
यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे 012c
ब्राह्मण उवाच 013
आगतोऽहं महाभाग तव दर्शनलालसः 013a
कञ्चिदर्थमनर्थज्ञः प्रष्टुकामो भुजङ्गम 013c
अहमात्मानमात्मस्थो मार्गमाणोऽऽत्मनो हितम् 014a
वासार्थिनं महाप्राज्ञ बलवन्तमुपास्मि ह 014c
प्रकाशितस्त्वं स्वगुणैर्यशोगर्भगभस्तिभिः 015a
शशाङ्ककरसंस्पर्शैर्हृद्यैरात्मप्रकाशितैः 015c
तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन 016a
पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति मे भवान् 016c