नाग उवाच 001
अथ ब्राह्मणरूपेण कं तं समनुपश्यसि 001a
मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते 001c
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि 002a
सन्दर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति 002c
सुरासुरगणानां च देवर्षीणां च भामिनि 003a
ननु नागा महावीर्याः सौरसेयास्तरस्विनः 003c
वन्दनीयाश्च वरदा वयमप्यनुयायिनः 004a
मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः 004c
नागभार्योवाच 005
आर्जवेनाभिजानामि नासौ देवोऽनिलाशन 005a
एकं त्वस्य विजानामि भक्तिमानतिरोषणः 005c
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा 006a
वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति 006c
न हि त्वा दैवतं किञ्चिद्विविग्नं प्रतिपालयेत् 007a
तुल्ये ह्यभिजने जातो न कश्चित्पर्युपासते 007c
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि 008a
आशाछेदेन तस्याद्य नात्मानं दग्धुमर्हसि 008c
आशया त्वभिपन्नानामकृत्वाश्रुप्रमार्जनम् 009a
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते 009c
मौनाज्ज्ञानफलावाप्तिर्दानेन च यशो महत् 010a
वाग्मित्वं सत्यवाक्येन परत्र च महीयते 010c
भूमिप्रदानेन गतिं लभत्याश्रमसम्मिताम् 011a
नष्टस्यार्थस्य सम्प्राप्तिं कृत्वा फलमुपाश्नुते 011c
अभिप्रेतामसङ्क्लिष्टां कृत्वाकामवतीं क्रियाम् 012a
न याति निरयं कश्चिदिति धर्मविदो विदुः 012c
नाग उवाच 013
अभिमानेन मानो मे जातिदोषेण वै महान् 013a
रोषः सङ्कल्पजः साध्वि दग्धो वाचाग्निना त्वया 013c
न च रोषादहं साध्वि पश्येयमधिकं तमः 014a
यस्य वक्तव्यतां यान्ति विशेषेण भुजङ्गमाः 014c
दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान् 015a
तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे 015c
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् 016a
धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः 016c
जामदग्न्येन रामेण सहस्रनयनोपमः 017a
संयुगे निहतो रोषात्कार्तवीर्यो महाबलः 017c
तदेष तपसां शत्रुः श्रेयसश्च निपातनः 018a
निगृहीतो मया रोषः श्रुत्वैव वचनं तव 018c
आत्मानं च विशेषेण प्रशंसाम्यनपायिनि 019a
यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता 019c
एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः 020a
सर्वथा चोक्तवान्वाक्यं नाकृतार्थः प्रयास्यति 020c