भीष्म उवाच 001
अथ काले बहुतिथे पूर्णे प्राप्तो भुजङ्गमः 001a
दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः 001c
तं भार्या समभिक्रामत्पादशौचादिभिर्गुणैः 002a
उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत 002c
अपि त्वमसि कल्याणि देवतातिथिपूजने 003a
पूर्वमुक्तेन विधिना युक्ता युक्तेन मत्समम् 003c
न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता 004a
मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना 004c
नागभार्योवाच 005
शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम् 005a
भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम् 005c
सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते 006a
वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता 006c
विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् 007a
गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता 007c
नियताहारता नित्यं व्रतचर्या यथाक्रमम् 008a
धर्मो हि धर्मसम्बन्धादिन्द्रियाणां विशेषणम् 008c
अहं कस्य कुतो वाहं कः को मे ह भवेदिति 009a
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् 009c
पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते 010a
तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै 010c
साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते 011a
सत्पथं कथमुत्सृज्य यास्यामि विषमे पथि 011c
देवतानां महाभाग धर्मचर्या न हीयते 012a
अतिथीनां च सत्कारे नित्ययुक्तास्म्यतन्द्रिता 012c
सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै 013a
स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति 013c
गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः 014a
आसीनोऽऽवर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः 014c
अहं त्वनेन नागेन्द्र सामपूर्वं समाहिता 015a
प्रस्थाप्यो मत्सकाशं स सम्प्राप्तो भुजगोत्तमः 015c
एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि 016a
दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः 016c