भीष्म उवाच 001
अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना 001a
निराहारेण वसता दुःखितास्ते भुजङ्गमाः 001c
सर्वे सम्भूय सहितास्तस्य नागस्य बान्धवाः 002a
भ्रातरस्तनया भार्या ययुस् तं ब्राह्मणं प्रति 002c
तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम् 003a
समासीनं निराहारं द्विजं जप्यपरायणम् 003c
ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत् 004a
ऊचुर्वाक्यमसन्दिग्धमातिथेयस्य बान्धवाः 004c
षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन 005a
न चाभिलषसे किञ्चिदाहारं धर्मवत्सल 005c
अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः 006a
कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः 006c
मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम 007a
आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण 007c
त्यक्ताहारेण भवता वने निवसता सता 008a
बालवृद्धमिदं सर्वं पीड्यते धर्मसङ्कटात् 008c
न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा 009a
पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु 009c
ब्राह्मण उवाच 010
उपदेशेन युष्माकमाहारोऽयं मया वृतः 010a
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति 010c
यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः 011a
तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम् 011c
कर्तव्यो न च सन्तापो गम्यतां च यथागतम् 012a
तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ 012c
भीष्म उवाच 013
तेन ते समनुज्ञाता ब्राह्मणेन भुजङ्गमाः 013a
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ 013c