भीष्म उवाच 001
स वनानि विचित्राणि तीर्थानि च सरांसि च 001a
अभिगच्छन्क्रमेण स्म कञ्चिन्मुनिमुपस्थितः 001c
तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः 002a
पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः 002c
सोऽभिगम्य यथाख्यातं नागायतनमर्थवित् 003a
प्रोक्तवानहमस्मीति भोःशब्दालङ्कृतं वचः 003c
ततस्तस्य वचः श्रुत्वा रूपिणी धर्मवत्सला 004a
दर्शयामास तं विप्रं नागपत्नी पतिव्रता 004c
सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा 005a
स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् 005c
ब्राह्मण उवाच 006
विश्रान्तोऽभ्यर्चितश्चास्मि भवत्या श्लक्ष्णया गिरा 006a
द्रष्टुमिच्छामि भवति तं देवं नागमुत्तमम् 006c
एतद्धि परमं कार्यमेतन्मे फलमीप्सितम् 007a
अनेनार्थेन चास्म्यद्य सम्प्राप्तः पन्नगालयम् 007c
नागभार्योवाच 008
आर्य सूर्यरथं वोढुं गतोऽसौ मासचारिकः 008a
सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम् 008c
एतद्विदितमार्यस्य विवासकरणं मम 009a
भर्तुर्भवतु किं चान्यत्क्रियतां तद्वदस्व मे 009c
ब्राह्मण उवाच 010
अनेन निश्चयेनाहं साध्वि सम्प्राप्तवानिह 010a
प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्महावने 010c
सम्प्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः 011a
ममाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया 011c
अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे 012a
कालं परिमिताहारो यथोक्तं परिपालयन् 012c
भीष्म उवाच 013
ततः स विप्रस्तां नागीं समाधाय पुनः पुनः 013a
तदेव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः 013c