ब्राह्मण उवाच 001
अतिभारोद्यतस्यैव भारापनयनं महत् 001a
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् 001c
अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् 002a
तृषितस्य च पानीयं क्षुधार्तस्य च भोजनम् 002c
ईप्सितस्येव सम्प्राप्तिरन्नस्य समयेऽतिथेः 003a
एषितस्यात्मनः काले वृद्धस्येव सुतो यथा 003c
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् 004a
प्रह्रादयति मां वाक्यं भवता यदुदीरितम् 004c
दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च 005a
प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः 005c
बाढमेवं करिष्यामि यथा मां भाषते भवान् 005e
इहेमां रजनीं साधो निवसस्व मया सह 006a
प्रभाते यास्यति भवान्पर्याश्वस्तः सुखोषितः 006c
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः 006e
भीष्म उवाच 007
ततस्तेन कृतातिथ्यः सोऽतिथिः शत्रुसूदन 007a
उवास किल तां रात्रिं सह तेन द्विजेन वै 007c
तत्तच्च धर्मसंयुक्तं तयोः कथयतोस्तदा 008a
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा 008c
ततः प्रभातसमये सोऽतिथिस्तेन पूजितः 009a
ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता 009c
ततः स विप्रः कृतधर्मनिश्चयः कृताभ्यनुज्ञः स्वजनेन धर्मवित् 010a
यथोपदिष्टं भुजगेन्द्रसंश्रयं जगाम काले सुकृतैकनिश्चयः 010c