अतिथिरुवाच 001
उपदेशं तु ते विप्र करिष्येऽहं यथागमम् 001a
गुरुणा मे यथाख्यातमर्थतस्तच्च मे शृणु 001c
यत्र पूर्वाभिसर्गेण धर्मचक्रं प्रवर्तितम् 002a
नैमिषे गोमतीतीरे तत्र नागाह्वयं पुरम् 002c
समग्रैस्त्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ 003a
यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः 003c
कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् 004a
पद्मनाभो महाभागः पद्म इत्येव विश्रुतः 004c
स वाचा कर्मणा चैव मनसा च द्विजर्षभ 005a
प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः 005c
साम्ना दानेन भेदेन दण्डेनेति चतुर्विधम् 006a
विषमस्थं जनं स्वं च चक्षुर्ध्यानेन रक्षति 006c
तमभिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम् 007a
स ते परमकं धर्मं नमिथ्या दर्शयिष्यति 007c
स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः 008a
गुणैरनवमैर्युक्तः समस्तैराभिकामिकैः 008c
प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः 009a
तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च 009c
यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः 010a
सत्यवागनसूयुश्च शीलवानभिसंश्रितः 010c
शेषान्नभोक्ता वचनानुकूलो हितार्जवोत्कृष्टकृताकृतज्ञः 011a
अवैरकृद्भूतहिते नियुक्तो गङ्गाह्रदाम्भोऽभिजनोपपन्नः 011c