ब्राह्मण उवाच 001
समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ 001a
मित्रतामभिपन्नस्त्वां किञ्चिद्वक्ष्यामि तच्छृणु 001c
गृहस्थधर्मं विप्रेन्द्र कृत्वा पुत्रगतं त्वहम् 002a
धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज 002c
अहमात्मानमात्मस्थमेक एवात्मनि स्थितः 003a
कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर्गुणैः 003c
यावदेवानतीतं मे वयः पुत्रफलाश्रितम् 004a
तावदिच्छामि पाथेयमादातुं पारलौकिकम् 004c
अस्मिन्हि लोकसन्ताने परं पारमभीप्सतः 005a
उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः 005c
समुह्यमानानि निशम्य लोके निर्यात्यमानानि च सात्त्विकानि 006a
दृष्ट्वा च धर्मध्वजकेतुमालां प्रकीर्यमाणामुपरि प्रजानाम् 006c
न मे मनो रज्यति भोगकाले दृष्ट्वा यतीन्प्रार्थयतः परत्र 007a
तेनातिथे बुद्धिबलाश्रयेण धर्मार्थतत्त्वे विनियुङ्क्ष्व मां त्वम् 007c
भीष्म उवाच 008
सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः 008a
प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा 008c
अहमप्यत्र मुह्यामि ममाप्येष मनोरथः 009a
न च सन्निश्चयं यामि बहुद्वारे त्रिविष्टपे 009c
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः 010a
वानप्रस्थाश्रमं केचिद्गार्हस्थ्यं केचिदाश्रिताः 010c
राजधर्माश्रयं केचित्केचिदात्मफलाश्रयम् 011a
गुरुचर्याश्रयं केचित्केचिद्वाक्यं यमाश्रयम् 011c
मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः 012a
अहिंसया परे स्वर्गं सत्येन च तथा परे 012c
आहवेऽभिमुखाः केचिन्निहताः स्विद्दिवं गताः 013a
केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः 013c
केचिदध्ययने युक्ता वेदव्रतपराः शुभाः 014a
बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः 014c
आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः 015a
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः 015c
एवं बहुविधैर्लोके धर्मद्वारैरनावृतैः 016a
ममापि मतिराविग्ना मेघलेखेव वायुना 016c