भीष्म उवाच 001
आसीत्किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे 001a
गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः 001c
सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः 002a
धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः 002c
अहिंसानिरतो नित्यं सत्यः सज्जनसम्मतः 003a
न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः 003c
ज्ञातिसम्बन्धिविपुले मित्रापाश्रयसम्मते 004a
कुले महति विख्याते विशिष्टां वृत्तिमास्थितः 004c
स पुत्रान्बहुलान्दृष्ट्वा विपुले कर्मणि स्थितः 005a
कुलधर्माश्रितो राजन्धर्मचर्यापरोऽभवत् 005c
ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तमेव च 006a
शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा 006c
किं नु मे स्याच्छुभं कृत्वा किं क्षमं किं परायणम् 007a
इत्येवं खिद्यते नित्यं न च याति विनिश्चयम् 007c
तस्यैवं खिद्यमानस्य धर्मं परममास्थितः 008a
कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः 008c
स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना 009a
विश्रान्तं चैनमासीनमिदं वचनमब्रवीत् 009c