युधिष्ठिर उवाच 001
धर्माः पितामहेनोक्ता मोक्षधर्माश्रिताः शुभाः 001a
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हति मे भवान् 001c
भीष्म उवाच 002
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः 002a
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया 002c
यस्मिन्यस्मिंस्तु विषये यो यो याति विनिश्चयम् 003a
स तमेवाभिजानाति नान्यं भरतसत्तम 003c
अपि च त्वं नरव्याघ्र श्रोतुमर्हसि मे कथाम् 004a
पुरा शक्रस्य कथितां नारदेन सुरर्षिणा 004c
सुरर्षिर्नारदो राजन्सिद्धस्त्रैलोक्यसम्मतः 005a
पर्येति क्रमशो लोकान्वायुरव्याहतो यथा 005c
स कदाचिन्महेष्वास देवराजालयं गतः 006a
सत्कृतश्च महेन्द्रेण प्रत्यासन्नगतोऽभवत् 006c
तं कृतक्षणमासीनं पर्यपृच्छच्छचीपतिः 007a
ब्रह्मर्षे किञ्चिदाश्चर्यमस्ति दृष्टं त्वयानघ 007c
यथा त्वमपि विप्रर्षे त्रैलोक्यं सचराचरम् 008a
जातकौतूहलो नित्यं सिद्धश्चरसि साक्षिवत् 008c
न ह्यस्त्यविदितं लोके देवर्षे तव किञ्चन 009a
श्रुतं वाप्यनुभूतं वा दृष्टं वा कथयस्व मे 009c
तस्मै राजन्सुरेन्द्राय नारदो वदतां वरः 010a
आसीनायोपपन्नाय प्रोक्तवान्विपुलां कथाम् 010c
यथा येन च कल्पेन स तस्मै द्विजसत्तमः 011a
कथां कथितवान्पृष्टस्तथा त्वमपि मे शृणु 011c