ब्रह्मोवाच 001
शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः 001a
अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते 001c
न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम 002a
सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः 002c
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ 003a
वसन्नपि शरीरेषु न स लिप्यति कर्मभिः 003c
ममान्तरात्मा तव च ये चान्ये देहसञ्ज्ञिताः 004a
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् 004c
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः 005a
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् 005c
क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे 006a
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते 006c
नागतिर्न गतिस्तस्य ज्ञेया भूतेन केनचित् 007a
साङ्ख्येन विधिना चैव योगेन च यथाक्रमम् 007c
चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम् 008a
यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् 008c
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः 009a
महापुरुषशब्दं स बिभर्त्येकः सनातनः 009c
एको हुताशो बहुधा समिध्यते एकः सूर्यस्तपसां योनिरेका 010a
एको वायुर्बहुधा वाति लोके महोदधिश्चाम्भसां योनिरेकः 010c
पुरुषश्चैको निर्गुणो विश्वरूपस्तं निर्गुणं पुरुषं चाविशन्ति 010e
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् 011a
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः 011c
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् 012a
विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् 012c
एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः 013a
एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः 013c
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः 014a
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः 014c
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा 014e
कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते 015a
ससप्तदशकेनापि राशिना युज्यते हि सः 015c
एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् 015e
यत्तत्कृत्स्नं लोकतन्त्रस्य धाम वेद्यं परं बोधनीयं सबोद्धृ 016a
मन्ता मन्तव्यं प्राशिता प्राशितव्यं घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् 016c
द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं ज्ञाता ज्ञेयं सगुणं निर्गुणं च 017a
यद्वै प्रोक्तं गुणसाम्यं प्रधानं नित्यं चैतच्छाश्वतं चाव्ययं च 017c
यद्वै सूते धातुराद्यं निधानं तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् 018a
यद्वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्योपभोज्यम् 018c
देवाः सर्वे मुनयः साधु दान्तास्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते 019a
अहं ब्रह्मा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः 019c
मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्या हि पुत्र 019e
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति 020a
एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः 020c
एतत्ते कथितं पुत्र यथावदनुपृच्छतः 021a
साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम् 021c