जनमेजय उवाच 001
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु 001a
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते 001c
वैशम्पायन उवाच 002
बहवः पुरुषा लोके साङ्ख्ययोगविचारिणाम् 002a
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह 002c
बहूनां पुरुषाणां च यथैका योनिरुच्यते 003a
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् 003c
नमस्कृत्वा तु गुरवे व्यासायामिततेजसे 004a
तपोयुक्ताय दान्ताय वन्द्याय परमर्षये 004c
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव 005a
ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् 005c
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः 006a
अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत 006c
समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् 007a
तत्तेऽहं सम्प्रवक्ष्यामि प्रसादादमितौजसः 007c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 008a
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते 008c
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः 009a
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप 009c
तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् 010a
वैराजसदने नित्यं वैजयन्तं निषेवते 010c
अथ तत्रासतस्तस्य चतुर्वक्त्रस्य धीमतः 011a
ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया 011c
आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः 011e
ततः खान्निपपाताशु धरणीधरमूर्धनि 012a
अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः 012c
तं पादयोर्निपतितं दृष्ट्वा सव्येन पाणिना 013a
उत्थापयामास तदा प्रभुरेकः प्रजापतिः 013c
उवाच चैनं भगवांश्चिरस्यागतमात्मजम् 014a
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम् 014c
कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा 015a
नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः 015c
रुद्र उवाच 016
त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम 016a
कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा 016c
चिरदृष्टो हि भगवान्वैराजसदने मया 017a
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् 017c
कौतूहलं चापि हि मे एकान्तगमनेन ते 018a
नैतत्कारणमल्पं हि भविष्यति पितामह 018c
किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् 019a
सुरासुरैरध्युषितमृषिभिश्चामितप्रभैः 019c
गन्धर्वैरप्सरोभिश्च सततं सन्निषेवितम् 020a
उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि 020c
ब्रह्मोवाच 021
वैजयन्तो गिरिवरः सततं सेव्यते मया 021a
अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् 021c
रुद्र उवाच 022
बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयम्भुवा 022a
सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् 022c
को ह्यसौ चिन्त्यते ब्रह्मंस्त्वया वै पुरुषोत्तमः 023a
एतन्मे संशयं ब्रूहि महत्कौतूहलं हि मे 023c
ब्रह्मोवाच 024
बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः 024a
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि 024c
आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते 024e
बहूनां पुरुषाणां स यथैका योनिरुच्यते 025a
तथा तं पुरुषं विश्वं परमं सुमहत्तमम् 025c
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् 025e