जनमेजय उवाच 001
साङ्ख्यं योगं पञ्चरात्रं वेदारण्यकमेव च 001a
ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह 001c
किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने 002a
प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् 002c
वैशम्पायन उवाच 003
जज्ञे बहुज्ञं परमत्युदारं यं द्वीपमध्ये सुतमात्मवन्तम् 003a
पराशराद्गन्धवती महर्षिं तस्मै नमोऽज्ञानतमोनुदाय 003c
पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमार्षेयविभूतियुक्तम् 004a
नारायणस्यांशजमेकपुत्रं द्वैपायनं वेदमहानिधानम् 004c
तमादिकालेषु महाविभूतिर्नारायणो ब्रह्ममहानिधानम् 005a
ससर्ज पुत्रार्थमुदारतेजा व्यासं महात्मानमजः पुराणः 005c
जनमेजय उवाच 006
त्वयैव कथितः पूर्वं सम्भवो द्विजसत्तम 006a
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः 006c
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः 007a
भूयो नारायणसुतं त्वमेवैनं प्रभाषसे 007c
किमतः पूर्वजं जन्म व्यासस्यामिततेजसः 008a
कथयस्वोत्तममते जन्म नारायणोद्भवम् 008c
वैशम्पायन उवाच 009
वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः 009a
गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः 009c
कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः 010a
शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा 010c
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः 011a
अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा 011c
एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः 012a
शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा 012c
वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः 013a
तमेकमनसं दान्तं युक्ता वयमुपास्महे 013c
कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः 014a
वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा 014c
स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित् 015a
नारायणादिदं जन्म व्याहर्तुमुपचक्रमे 015c
शृणुध्वमाख्यानवरमेतदार्षेयमुत्तमम् 016a
आदिकालोद्भवं विप्रास्तपसाधिगतं मया 016c
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसम्भवे 017a
नारायणो महायोगी शुभाशुभविवर्जितः 017c
ससृजे नाभितः पुत्रं ब्रह्माणममितप्रभम् 018a
ततः स प्रादुरभवदथैनं वाक्यमब्रवीत् 018c
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः 019a
सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः 019c
स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः 020a
प्रणम्य वरदं देवमुवाच हरिमीश्वरम् 020c
का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते 021a
अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् 021c
स एवमुक्तो भगवान्भूत्वाथान्तर्हितस्ततः 022a
चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः 022c
स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् 023a
योगेन चैनां निर्योगः स्वयं नियुयुजे तदा 023c
स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् 024a
उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः 024c
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये 025a
ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा 025c
अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः 026a
भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः 026c
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत 027a
प्राप चैव मुहूर्तेन स्वस्थानं देवसञ्ज्ञितम् 027c
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् 028a
अथास्य बुद्धिरभवत्पुनरन्या तदा किल 028c
सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना 029a
दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः 029c
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी 029e
बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः 030a
भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान् 030c
अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः 031a
बाधितव्याः सुरगणा ऋषयश्च तपोधनाः 031c
तत्र न्याय्यमिदं कर्तुं भारावतरणं मया 031e
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् 032a
निग्रहेण च पापानां साधूनां प्रग्रहेण च 032c
इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम् 033a
मया ह्येषा हि ध्रियते पातालस्थेन भोगिना 033c
मया धृता धारयति जगद्धि सचराचरम् 034a
तस्मात्पृथ्व्याः परित्राणं करिष्ये सम्भवं गतः 034c
एवं स चिन्तयित्वा तु भगवान्मधुसूदनः 035a
रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः 035c
वाराहं नारसिंहं च वामनं मानुषं तथा 036a
एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः 036c
अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् 037a
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् 037c
अपान्तरतमा नाम सुतो वाक्सम्भवो विभोः 038a
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः 038c
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः 039a
वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर 039c
तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने 039e
तेन भिन्नास्तदा वेदा मनोः स्वायम्भुवेऽन्तरे 040a
ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा 040c
तपसा च सुतप्तेन यमेन नियमेन च 040e
श्रीभगवानुवाच 041
मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः 041a
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः 041c
पुनस्तिष्ये च सम्प्राप्ते कुरवो नाम भारताः 042a
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि 042c
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति 043a
परस्परविनाशार्थं त्वामृते द्विजसत्तम 043c
तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः 044a
कृष्णे युगे च सम्प्राप्ते कृष्णवर्णो भविष्यसि 044c
धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा 045a
भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे 045c
वीतरागश्च पुत्रस्ते परमात्मा भविष्यति 046a
महेश्वरप्रसादेन नैतद्वचनमन्यथा 046c
यं मानसं वै प्रवदन्ति पुत्रं पितामहस्योत्तमबुद्धियुक्तम् 047a
वसिष्ठमग्र्यं तपसो निधानं यश्चापि सूर्यं व्यतिरिच्य भाति 047c
तस्यान्वये चापि ततो महर्षिः पराशरो नाम महाप्रभावः 048a
पिता स ते वेदनिधिर्वरिष्ठो महातपा वै तपसो निवासः 048c
कानीनगर्भः पितृकन्यकायां तस्मादृषेस्त्वं भविता च पुत्रः 048e
भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः 049a
ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः 049c
तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसान्वितः 050a
पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् 050c
अनादिनिधनं लोके चक्रहस्तं च मां मुने 051a
अनुध्यानान्मम मुने नैतद्वचनमन्यथा 051c
शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् 052a
तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः 052c
त्वमेव भविता वत्स मत्प्रसादान्न संशयः 052e
व्यास उवाच 053
एवं सारस्वतमृषिमपान्तरतमं तदा 053a
उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् 053c
सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः 054a
अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः 054c
पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः 054e
तदेतत्कथितं जन्म मया पूर्वकमात्मनः 055a
नारायणप्रसादेन तथा नारायणांशजम् 055c
मया हि सुमहत्तप्तं तपः परमदारुणम् 056a
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना 056c
एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः 057a
पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया 057c
वैशम्पायन उवाच 058
एष ते कथितः पूर्वं सम्भवोऽस्मद्गुरोर्नृप 058a
व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु 058c
साङ्ख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा 059a
ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै 059c
साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते 060a
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः 060c
अपान्तरतमाश्चैव वेदाचार्यः स उच्यते 061a
प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन 061c
उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः 062a
उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः 062c
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान्स्वयम् 063a
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते 063c
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः 064a
न चैनमेवं जानन्ति तमोभूता विशां पते 064c
तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः 065a
निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः 065c
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः 066a
ससंशयान्हेतुबलान्नाध्यावसति माधवः 066c
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप 067a
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै 067c
साङ्ख्यं च योगं च सनातने द्वे वेदाश्च सर्वे निखिलेन राजन् 068a
सर्वैः समस्तैर्ॠषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम् 068c
शुभाशुभं कर्म समीरितं यत्प्रवर्तते सर्वलोकेषु किञ्चित् 069a
तस्मादृषेस्तद्भवतीति विद्याद्दिव्यन्तरिक्षे भुवि चाप्सु चापि 069c