जनमेजय उवाच 001
अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः 001a
विधिप्रयुक्तां पूजां च गृह्णाति भगवान्स्वयम् 001c
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः 002a
तेषां त्वयाभिनिर्दिष्टा पारम्पर्यागता गतिः 002c
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् 003a
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् 003c
नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः 004a
अगत्वा गतयस्तिस्रो यद्गच्छन्त्यव्ययं हरिम् 004c
सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः 005a
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः 005c
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् 006a
केनैष धर्मः कथितो देवेन ऋषिणापि वा 006c
एकान्तिनां च का चर्या कदा चोत्पादिता विभो 007a
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे 007c
वैशम्पायन उवाच 008
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे 008a
अर्जुने विमनस्के च गीता भगवता स्वयम् 008c
आगतिश्च गतिश्चैव पूर्वं ते कथिता मया 009a
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः 009c
सम्मितः सामवेदेन पुरैवादियुगे कृतः 010a
धार्यते स्वयमीशेन राजन्नारायणेन ह 010c
एतमर्थं महाराज पृष्टः पार्थेन नारदः 011a
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः 011c
गुरुणा च ममाप्येष कथितो नृपसत्तम 012a
यथा तु कथितस्तत्र नारदेन तथा शृणु 012c
यदासीन्मानसं जन्म नारायणमुखोद्गतम् 013a
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् 013c
तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत 013e
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे 014a
वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे 014c
वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः 014e
यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप 015a
तदा पितामहात्सोमादेतं धर्ममजानत 015c
नारायणात्मकं राजन्रुद्राय प्रददौ च सः 015e
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप 016a
वालखिल्यानृषीन्सर्वान्धर्ममेतमपाठयत् 016c
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया 016e
तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् 017a
तत्रैष धर्मः सम्भूतः स्वयं नारायणान्नृप 017c
सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् 018a
तपसा वै सुतप्तेन दमेन नियमेन च 018c
त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् 019a
यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते 019c
ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् 020a
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः 020c
वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा 021a
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः 021c
तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम् 022a
ततः सोऽन्तर्दधे भूयो नारायणसमाहितः 022c
यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः 023a
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु 023c
जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् 024a
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुः 024c
अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सृतः 025a
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः 025c
सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा 026a
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत 026c
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः 027a
तेन सर्वं कृतयुगं स्थापयस्व यथाविधि 027c
ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे 028a
धर्मं चाग्र्यं स जग्राह सरहस्यं ससङ्ग्रहम् 028c
आरण्यकेन सहितं नारायणमुखोद्गतम् 028e
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे 029a
तं कार्तयुगधर्माणं निराशीःकर्मसञ्ज्ञितम् 029c
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् 029e
ततोऽथ वरदो देवो ब्रह्मलोकपितामहः 030a
असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् 030c
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् 031a
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः 031c
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् 032a
पूजयामास देवेशं हरिं नारायणं प्रभुम् 032c
धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः 033a
अध्यापयामास तदा लोकानां हितकाम्यया 033c
ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप 034a
अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः 034c
ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् 035a
दिशापालं सुधर्माणमध्यापयत भारत 035c
ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः 035e
नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम 036a
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः 036c
उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा 036e
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप 037a
सनत्कुमारादपि च वीरणो वै प्रजापतिः 037c
कृतादौ कुरुशार्दूल धर्ममेतमधीतवान् 037e
वीरणश्चाप्यधीत्यैनं रौच्याय मनवे ददौ 038a
रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे 038c
कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे 039a
ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः 039c
अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये 040a
एष धर्मः समुद्भूतो नारायणमुखात्पुनः 040c
गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि 041a
अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप 041c
बर्हिषद्भ्यश्च सङ्क्रान्तः सामवेदान्तगं द्विजम् 042a
ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः 042c
ज्येष्ठाच्चाप्यनुसङ्क्रान्तो राजानमविकम्पनम् 043a
अन्तर्दधे ततो राजन्नेष धर्मः प्रभोर्हरेः 043c
यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप 044a
तत्रैष धर्मः कथितः स्वयं नारायणेन हि 044c
पितामहाय शुद्धाय युगादौ लोकधारिणे 045a
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ 045c
ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम 046a
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः 046c
त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ 047a
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ 047c
इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः 048a
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप 048c
व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम 049a
कथितो हरिगीतासु समासविधिकल्पितः 049c
नारदेन तु सम्प्राप्तः सरहस्यः ससङ्ग्रहः 050a
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप 050c
एवमेष महान्धर्म आद्यो राजन्सनातनः 051a
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा 051c
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा 052a
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः 052c
एकव्यूहविभागो वा क्वचिद्द्विव्यूहसञ्ज्ञितः 053a
त्रिव्यूहश्चापि सङ्ख्यातश्चतुर्व्यूहश्च दृश्यते 053c
हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा 054a
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः 054c
मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम् 055a
एष लोकनिधिर्धीमानेष लोकविसर्गकृत् 055c
अकर्ता चैव कर्ता च कार्यं कारणमेव च 056a
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः 056c
एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम 057a
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः 057c
एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप 057e
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन 058a
अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः 058c
भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जितैः 058e
एवं स भगवान्व्यासो गुरुर्मम विशां पते 059a
कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः 059c
ऋषीणां सन्निधौ राजञ्शृण्वतोः कृष्णभीष्मयोः 060a
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः 060c
देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् 061a
यत्र चैकान्तिनो यान्ति नारायणपरायणाः 061c
जनमेजय उवाच 062
एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम् 062a
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः 062c
वैशम्पायन उवाच 063
तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः 063a
सात्त्विकी राजसी चैव तामसी चेति भारत 063c
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह 064a
सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः 064c
अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम् 065a
नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः 065c
मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् 066a
एकान्तभक्तिः सततं नारायणपरायणः 066c
मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः 067a
तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः 067c
जायमानं हि पुरुषं यं पश्येन्मधुसूदनः 068a
सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः 068c
साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः 069a
नारायणात्मके मोक्षे ततो यान्ति परां गतिम् 069c
नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान् 070a
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते 070c
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते 071a
तदात्मकं हि पुरुषं जायमानं विशां पते 071c
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् 071e
पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः 072a
रजसा तमसा चैव मानुषं समभिप्लुतम् 072c
कामं देवाश्च ऋषयः सत्त्वस्था नृपसत्तम 073a
हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः 073c
जनमेजय उवाच 074
कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् 074a
वैशम्पायन उवाच 075
सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः 075a
पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकम् 075c
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च 076a
परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते 076c
एष एकान्तिनां धर्मो नारायणपरात्मकः 076e
यथा समुद्रात्प्रसृता जलौघास्तमेव राजन्पुनराविशन्ति 077a
इमे तथा ज्ञानमहाजलौघा नारायणं वै पुनराविशन्ति 077c
एष ते कथितो धर्मः सात्वतो यदुबान्धव 078a
कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत 078c
एवं हि सुमहाभागो नारदो गुरवे मम 079a
श्वेतानां यतिनामाह एकान्तगतिमव्ययाम् 079c
व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते 080a
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः 080c
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम 081a
यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः 081c
कृष्ण एव हि लोकानां भावनो मोहनस्तथा 082a