जनमेजय उवाच 001
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः 001a
जन्म धर्मगृहे चैव नरनारायणात्मकम् 001c
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी 001e
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः 002a
स तथा नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयानघ 002c
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् 003a
हव्यकव्यभुजो विष्णोरुदक्पूर्वे महोदधौ 003c
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना 003e
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा 004a
रूपं प्रभावमहतामपूर्वं धीमतां वर 004c
दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् 005a
तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने 005c
एतन्नः संशयं ब्रह्मन्पुराणज्ञानसम्भवम् 006a
कथयस्वोत्तममते महापुरुषनिर्मितम् 006c
पाविताः स्म त्वया ब्रह्मन्पुण्यां कथयता कथाम् 006e
वैशम्पायन उवाच 007
कथयिष्यामि ते सर्वं पुराणं वेदसम्मितम् 007a
जगौ यद्भगवान्व्यासो राज्ञो धर्मसुतस्य वै 007c
श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः 008a
उत्पन्नसंशयो राजा तमेव समचोदयत् 008c
युधिष्ठिर उवाच 009
यत्तद्दर्शितवान्ब्रह्मा देवं हयशिरोधरम् 009a
किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् 009c
व्यास उवाच 010
यत्किञ्चिदिह लोके वै देहबद्धं विशां पते 010a
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः 010c
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् 011a
भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च 011c
भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम 011e
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा 012a
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले 012c
वायौ चाकाशसंलीने आकाशे च मनोनुगे 013a
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते 013c
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च 014a
तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन 014c
तमसो ब्रह्म सम्भूतं तमोमूलमृतात्मकम् 015a
तद्विश्वभावसञ्ज्ञान्तं पौरुषीं तनुमास्थितम् 015c
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते 016a
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम 016c
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः 017a
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः 017c
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् 017e
तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः 018a
अहङ्कारस्ततो जातो ब्रह्मा शुभचतुर्मुखः 018c
हिरण्यगर्भो भगवान्सर्वलोकपितामहः 018e
पद्मेऽनिरुद्धात्सम्भूतस्तदा पद्मनिभेक्षणः 019a
सहस्रपत्रे द्युतिमानुपविष्टः सनातनः 019c
ददृशेऽद्भुतसङ्काशे लोकानापोमयान्प्रभुः 020a
सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजत् 020c
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे 021a
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ 021c
तावपश्यत्स भगवाननादिनिधनोऽच्युतः 022a
एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः 022c
स तामसो मधुर्जातस्तदा नारायणाज्ञया 023a
कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः 023c
तावभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ 024a
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ 024c
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम् 025a
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् 025c
ततो विग्रहवन्तौ तौ वेदान्दृष्ट्वासुरोत्तमौ 026a
सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा 026c
अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् 027a
रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ 027c
ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् 028a
ततो वचनमीशानं प्राह वेदैर्विनाकृतः 028c
वेदा मे परमं चक्षुर्वेदा मे परमं बलम् 029a
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम् 029c
मम वेदा हृताः सर्वे दानवाभ्यां बलादितः 030a
अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः 030c
वेदानृते हि किं कुर्यां लोकान्वै स्रष्टुमुद्यतः 030e
अहो बत महद्दुःखं वेदनाशनजं मम 031a
प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन् 031c
को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् 032a
वेदांस्तानानयेन्नष्टान्कस्य चाहं प्रियो भवे 032c
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम 033a
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर 033c
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः 033e
नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज 034a
लोकाद्य भुवनश्रेष्ठ साङ्ख्ययोगनिधे विभो 034c
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित 035a
विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज 035c
अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयम्भुवे 036a
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् 036c
चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् 037a
त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत् 037c
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो 038a
नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते 038c
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् 039a
इदं च सप्तमं जन्म पद्मजं मेऽमितप्रभ 039c
सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जितः 040a
प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः 040c
त्वमीश्वरस्वभावश्च स्वयम्भूः पुरुषोत्तमः 041a
त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिगः 041c
ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि 042a
ददस्व चक्षुषी मह्यं प्रियोऽहं ते प्रियोऽसि मे 042c
एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः 043a
जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः 043c
ऐश्वरेण प्रयोगेण द्वितीयां तनुमास्थितः 043e
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा 044a
कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः 044c
तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारका 045a
केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः 045c
कर्णावाकाशपाताले ललाटं भूतधारिणी 046a
गङ्गा सरस्वती पुण्या भ्रुवावास्तां महानदी 046c
चक्षुषी सोमसूर्यौ ते नासा सन्ध्या पुनः स्मृता 047a
ओङ्कारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता 047c
दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः 048a
गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः 048c
ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा 048e
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् 049a
अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः 049c
रसां पुनः प्रविष्टश्च योगं परममास्थितः 050a
शैक्षं स्वरं समास्थाय ओमिति प्रासृजत्स्वरम् 050c
स स्वरः सानुनादी च सर्वगः स्निग्ध एव च 051a
बभूवान्तर्महीभूतः सर्वभूतगुणोदितः 051c
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् 052a
रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ 052c
एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः 053a
जग्राह वेदानखिलान्रसातलगतान्हरिः 053c
प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः 053e
स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ 054a
वेदानामालयश्चापि बभूवाश्वशिरास्ततः 054c
अथ किञ्चिदपश्यन्तौ दानवौ मधुकैटभौ 055a
पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ 055c
यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च 055e
तत उत्तममास्थाय वेगं बलवतां वरौ 056a
पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा 056c
ददृशाते च पुरुषं तमेवादिकरं प्रभुम् 056e
श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् 057a
भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम् 057c
आत्मप्रमाणरचिते अपामुपरि कल्पिते 058a
शयने नागभोगाढ्ये ज्वालामालासमावृते 058c
निष्कल्मषेण सत्त्वेन सम्पन्नं रुचिरप्रभम् 059a
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् 059c
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ 060a
अयं स पुरुषः श्वेतः शेते निद्रामुपागतः 060c
अनेन नूनं वेदानां कृतमाहरणं रसात् 061a
कस्यैष को नु खल्वेष किं च स्वपिति भोगवान् 061c
इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् 062a
युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः 062c
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे 063a
अथ युद्धं समभवत्तयोर्नारायणस्य च 063c
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ 064a
ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः 064c
ततस्तयोर्वधेनाशु वेदापहरणेन च 065a
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः 065c
ततः परिवृतो ब्रह्मा हतारिर्वेदसत्कृतः 066a
निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् 066c
दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम् 067a
तत्रैवान्तर्दधे देवो यत एवागतो हरिः 067c
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् 068a
पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् 068c
एवमेष महाभागो बभूवाश्वशिरा हरिः 069a
पौराणमेतदाख्यातं रूपं वरदमैश्वरम् 069c
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयेत वा 070a
न तस्याध्ययनं नाशमुपगच्छेत्कदाचन 070c
आराध्य तपसोग्रेण देवं हयशिरोधरम् 071a
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते 071c
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् 072a
पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि 072c
यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् 073a
तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना 073c
एष वेदनिधिः श्रीमानेष वै तपसो निधिः 074a
एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हरिर्विभुः 074c
नारायणपरा वेदा यज्ञा नारायणात्मकाः 075a
तपो नारायणपरं नारायणपरा गतिः 075c
नारायणपरं सत्यमृतं नारायणात्मकम् 076a
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः 076c
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः 077a
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः 077c
अपां चैव गुणो राजन्रसो नारायणात्मकः 078a
ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् 078c
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः 079a
नारायणात्मकश्चापि शब्द आकाशसम्भवः 079c
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् 080a
नारायणपरः कालो ज्योतिषामयनं च यत् 080c
नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः 081a
नारायणपरं साङ्ख्यं योगो नारायणात्मकः 081c
कारणं पुरुषो येषां प्रधानं चापि कारणम् 082a
स्वभावश्चैव कर्माणि दैवं येषां च कारणम् 082c
पञ्चकारणसङ्ख्यातो निष्ठा सर्वत्र वै हरिः 083a
तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः 083c
तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः 084a
सब्रह्मकानां लोकानामृषीणां च महात्मनाम् 084c
साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम् 085a
मनीषितं विजानाति केशवो न तु तस्य ते 085c
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते 086a
दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् 086c
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः 087a
सर्वभूतकृतावासो वासुदेवेति चोच्यते 087c
अयं हि नित्यः परमो महर्षिर्महाविभूतिर्गुणवान्निर्गुणाख्यः 088a
गुणैश्च संयोगमुपैति शीघ्रं कालो यथर्तावृतुसम्प्रयुक्तः 088c
नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति 089a
ज्ञानात्मकाः संयमिनो महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम् 089c