वैशम्पायन उवाच 001
श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् 001a
अत्यन्तभक्तिमान्देवे एकान्तित्वमुपेयिवान् 001c
प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे 002a
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् 002c
हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः 002e
तावपि ख्याततपसौ नरनारायणावृषी 003a
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम् 003c
त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः 004a
पावितात्माद्य संवृत्तः श्रुत्वेमामादितः कथाम् 004c
नैव तस्य परो लोको नायं पार्थिवसत्तम 005a
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् 005c
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः 006a
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् 006c
कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् 007a
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति स्थितिः 007c
य एष गुरुरस्माकमृषिर्गन्धवतीसुतः 008a
तेनैतत्कथितं तात माहात्म्यं परमात्मनः 008c
तस्माच्छ्रुतं मया चेदं कथितं च तवानघ 008e
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् 009a
को ह्यन्यः पुरुषव्याघ्र महाभारतकृद्भवेत् 009c
धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् 009e
वर्ततां ते महायज्ञो यथा सङ्कल्पितस्त्वया 010a
सङ्कल्पिताश्वमेधस्त्वं श्रुतधर्मश्च तत्त्वतः 010c
एतत्तु महदाख्यानं श्रुत्वा पारिक्षितो नृपः 011a
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् 011c
नारायणीयमाख्यानमेतत्ते कथितं मया 012a
नारदेन पुरा राजन्गुरवे मे निवेदितम् 012c
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः 012e
स हि परमगुरुर्भुवनपतिर्धरणिधरः शमनियमनिधिः 013a
श्रुतिविनयनिधिर्द्विजपरमहितस्तव भवतु गतिर्हरिरमरहितः 013c
तपसां निधिः सुमहतां महतो यशसश्च भाजनमरिष्टकहा 014a
एकान्तिनां शरणदोऽभयदो गतिदोऽस्तु वः स मखभागहरः 014c
त्रिगुणातिगश्चतुष्पञ्चधरः पूर्तेष्टयोश्च फलभागहरः 015a
विदधाति नित्यमजितोऽतिबलो गतिमात्मगां सुकृतिनामृषिणाम् 015c
तं लोकसाक्षिणमजं पुरुषं रविवर्णमीश्वरगतिं बहुशः 016a
प्रणमध्वमेकमतयो यतयः सलिलोद्भवोऽपि तमृषिं प्रणतः 016c
स हि लोकयोनिरमृतस्य पदं सूक्ष्मं पुराणमचलं परमम् 017a
तत्साङ्ख्ययोगिभिरुदारधृतं बुद्ध्या यतात्मभिर्विदितं सततम् 017c