वैशम्पायन उवाच 001
कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः 001a
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् 001c
ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः 002a
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते 002c
त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम् 003a
किमेतत्क्रियते कर्म फलं चास्य किमिष्यते 003c
नारद उवाच 004
त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि 004a
दैवतं च परो यज्ञः परमात्मा सनातनः 004c
ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् 005a
तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः 005c
मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् 006a
अहं सङ्कल्पजस्तस्य पुत्रः प्रथमकल्पितः 006c
यजाम्यहं पितॄन्साधो नारायणविधौ कृते 007a
एवं स एव भगवान्पिता माता पितामहः 007c
इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः 007e
श्रुतिश्चाप्यपरा देव पुत्रान्हि पितरोऽयजन् 008a
वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः 008c
ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे 008e
नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः 009a
पुत्राश्च पितरश्चैव परस्परमपूजयन् 009c
त्रीन्पिण्डान्न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशानिति 010a
कथं तु पिण्डसञ्ज्ञां ते पितरो लेभिरे पुरा 010c
नरनारायणावूचतुः 011
इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् 011a
गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः 011c
स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः 012a
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः 012c
प्राप्ते चाह्निककाले स मध्यन्दिनगते रवौ 013a
दंष्ट्राविलग्नान्मृत्पिण्डान्विधूय सहसा प्रभुः 013c
स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद 013e
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि 014a
सङ्कल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः 014c
आत्मगात्रोष्मसम्भूतैः स्नेहगर्भैस्तिलैरपि 015a
प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान्स्वयम् 015c
मर्यादास्थापनार्थं च ततो वचनमुक्तवान् 016a
अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् 016c
तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम् 017a
दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् 017c
आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते 017e
त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे 018a
भवन्तु पितरो लोके मया सृष्टाः सनातनाः 018c
पिता पितामहश्चैव तथैव प्रपितामहः 019a
अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः 019c
नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मया स्वयम् 020a
को वा मम पिता लोके अहमेव पितामहः 020c
पितामहपिता चैव अहमेवात्र कारणम् 021a
इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः 021c
वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान् 022a
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः 022c
एतदर्थं शुभमते पितरः पिण्डसञ्ज्ञिताः 023a
लभन्ते सततं पूजां वृषाकपिवचो यथा 023c
ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा 024a
गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं तथा 024c
कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते 024e
अन्तर्गतः स भगवान्सर्वसत्त्वशरीरगः 025a
समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः 025c
महान्महात्मा सर्वात्मा नारायण इति श्रुतः 025e