नरनारायणावूचतुः 001
धन्योऽस्यनुगृहीतोऽसि यत्ते दृष्टः स्वयं प्रभुः 001a
न हि तं दृष्टवान्कश्चित्पद्मयोनिरपि स्वयम् 001c
अव्यक्तयोनिर्भगवान्दुर्दर्शः पुरुषोत्तमः 002a
नारदैतद्धि ते सत्यं वचनं समुदाहृतम् 002c
नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते 003a
ततः स्वयं दर्शितवान्स्वमात्मानं द्विजोत्तम 003c
तपो हि तप्यतस्तस्य यत्स्थानं परमात्मनः 004a
न तत्सम्प्राप्नुते कश्चिदृते ह्यावां द्विजोत्तम 004c
या हि सूर्यसहस्रस्य समस्तस्य भवेद्द्युतिः 005a
स्थानस्य सा भवेत्तस्य स्वयं तेन विराजता 005c
तस्मादुत्तिष्ठते विप्र देवाद्विश्वभुवः पतेः 006a
क्षमा क्षमावतां श्रेष्ठ यया भूमिस्तु युज्यते 006c
तस्माच्चोत्तिष्ठते देवात्सर्वभूतहितो रसः 007a
आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च 007c
तस्मादेव समुद्भूतं तेजो रूपगुणात्मकम् 008a
येन स्म युज्यते सूर्यस्ततो लोकान्विराजते 008c
तस्माद्देवात्समुद्भूतः स्पर्शस्तु पुरुषोत्तमात् 009a
येन स्म युज्यते वायुस्ततो लोकान्विवात्यसौ 009c
तस्माच्चोत्तिष्ठते शब्दः सर्वलोकेश्वरात्प्रभोः 010a
आकाशं युज्यते येन ततस्तिष्ठत्यसंवृतम् 010c
तस्माच्चोत्तिष्ठते देवात्सर्वभूतगतं मनः 011a
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः 011c
षड्भूतोत्पादकं नाम तत्स्थानं वेदसञ्ज्ञितम् 012a
विद्यासहायो यत्रास्ते भगवान्हव्यकव्यभुक् 012c
ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः 013a
तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम 013c
सर्वलोकतमोहन्ता आदित्यो द्वारमुच्यते 013e
आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित्क्वचित् 014a
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्युत 014c
तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः 015a
मनोभूतास्ततो भूयः प्रद्युम्नं प्रविशन्त्युत 015c
प्रद्युम्नाच्चापि निर्मुक्ता जीवं सङ्कर्षणं तथा 016a
विशन्ति विप्रप्रवराः साङ्ख्या भागवतैः सह 016c
ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा 017a
प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् 017c
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः 017e
समाहितमनस्काश्च नियताः संयतेन्द्रियाः 018a
एकान्तभावोपगता वासुदेवं विशन्ति ते 018c
आवामपि च धर्मस्य गृहे जातौ द्विजोत्तम 019a
रम्यां विशालामाश्रित्य तप उग्रं समास्थितौ 019c
ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः 020a
भविष्यन्ति त्रिलोकस्थास्तेषां स्वस्तीत्यतो द्विज 020c
विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम 021a
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक्तदुत्तमम् 021c
आवाभ्यामपि दृष्टस्त्वं श्वेतद्वीपे तपोधन 022a
समागतो भगवता सञ्जल्पं कृतवान्यथा 022c
सर्वं हि नौ संविदितं त्रैलोक्ये सचराचरे 023a
यद्भविष्यति वृत्तं वा वर्तते वा शुभाशुभम् 023c
वैशम्पायन उवाच 024
एतच्छ्रुत्वा तयोर्वाक्यं तपस्युग्रेऽभ्यवर्तत 024a
नारदः प्राञ्जलिर्भूत्वा नारायणपरायणः 024c
जजाप विधिवन्मन्त्रान्नारायणगतान्बहून् 025a
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे 025c
अवसत्स महातेजा नारदो भगवानृषिः 026a
तमेवाभ्यर्चयन्देवं नरनारायणौ च तौ 026c