जनमेजय उवाच 001
ब्रह्मन्सुमहदाख्यानं भवता परिकीर्तितम् 001a
यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः 001c
इदं शतसहस्राद्धि भारताख्यानविस्तरात् 002a
आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् 002c
नवनीतं यथा दध्नो मलयाच्चन्दनं यथा 003a
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा 003c
समुद्धृतमिदं ब्रह्मन्कथामृतमनुत्तमम् 004a
तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् 004c
स हीशो भगवान्देवः सर्वभूतात्मभावनः 005a
अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम 005c
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः 006a
ऋषयश्च सगन्धर्वा यच्च किञ्चिच्चराचरम् 006c
न ततोऽस्ति परं मन्ये पावनं दिवि चेह च 006e
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् 007a
न तथा फलदं चापि नारायणकथा यथा 007c
सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् 008a
हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् 008c
न चित्रं कृतवांस्तत्र यदार्यो मे धनञ्जयः 009a
वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् 009c
न चास्य किञ्चिदप्राप्यं मन्ये लोकेष्वपि त्रिषु 010a
त्रैलोक्यनाथो विष्णुः स यस्यासीत्साह्यकृत्सखा 010c
धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वकाः 011a
हिताय श्रेयसे चैव येषामासीज्जनार्दनः 011c
तपसापि न दृश्यो हि भगवाल्ँलोकपूजितः 012a
यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् 012c
तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः 013a
न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् 013c
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः 013e
देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् 014a
यद्दृष्टवांस्तदा देवमनिरुद्धतनौ स्थितम् 014c
बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः 015a
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने 015c
श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः 016a
बदरीमाश्रमं प्राप्य समागम्य च तावृषी 016c
कियन्तं कालमवसत्काः कथाः पृष्टवांश्च सः 017a
श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि 017c
किमब्रूतां महात्मानौ नरनारायणावृषी 018a
तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि 018c
वैशम्पायन उवाच 019
नमो भगवते तस्मै व्यासायामिततेजसे 019a
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् 019c
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् 020a
निवृत्तो नारदो राजंस्तरसा मेरुमागमत् 020c
हृदयेनोद्वहन्भारं यदुक्तं परमात्मना 020e
पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् 021a
यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः 021c
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम् 022a
निपपात च खात्तूर्णं विशालां बदरीमनु 022c
ततः स ददृशे देवौ पुराणावृषिसत्तमौ 023a
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ 023c
तेजसाभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् 024a
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ 024c
जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ 025a
व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ 025c
षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ 026a
स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ 026c
आतपत्रेण सदृशे शिरसी देवयोस्तयोः 027a
एवं लक्षणसम्पन्नौ महापुरुषसञ्ज्ञितौ 027c
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः 028a
स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तदा 028c
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ 029a
सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः 029c
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ 030a
इति सञ्चिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम् 030c
उपोपविविशे तत्र पीठे कुशमये शुभे 030e
ततस्तौ तपसां वासौ यशसां तेजसामपि 031a
ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् 031c
पश्चान्नारदमव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च 032a
पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृप 032c
तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत 033a
आज्याहुतिमहाज्वालैर्यज्ञवाटोऽग्निभिर्यथा 033c
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् 034a
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् 034c
अपीदानीं स भगवान्परमात्मा सनातनः 035a
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा 035c
नारद उवाच 036
दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः 036a
सर्वे हि लोकास्तत्रस्थास्तथा देवाः सहर्षिभिः 036c
अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ 036e
यैर्लक्षणैरुपेतः स हरिरव्यक्तरूपधृक् 037a
तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् 037c
दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः 038a
इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना 038c
को हि नाम भवेत्तस्य तेजसा यशसा श्रिया 039a
सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् 039c
तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसञ्ज्ञितम् 040a
प्रादुर्भावाश्च कथिता भविष्यन्ति हि ये यथा 040c
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः 041a
प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् 041c
तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः 042a
प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः 042c
रमते सोऽर्च्यमानो हि सदा भागवतप्रियः 043a
विश्वभुक्सर्वगो देवो बान्धवो भक्तवत्सलः 043c
स कर्ता कारणं चैव कार्यं चातिबलद्युतिः 043e
तपसा योज्य सोऽऽत्मानं श्वेतद्वीपात्परं हि यत् 044a
तेज इत्यभिविख्यातं स्वयम्भासावभासितम् 044c
शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम् 045a
एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः 045c
न तत्र सूर्यस्तपति न सोमोऽभिविराजते 046a
न वायुर्वाति देवेशे तपश्चरति दुश्चरम् 046c
वेदीमष्टतलोत्सेधां भूमावास्थाय विश्वभुक् 047a
एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्मुखः 047c
साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् 047e
यद्ब्रह्मा ऋषयश्चैव स्वयं पशुपतिश्च यत् 048a
शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः 048c
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश्च ये 049a
हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते 049c
कृत्स्नं तत्तस्य देवस्य चरणावुपतिष्ठति 049e
याः क्रियाः सम्प्रयुक्तास्तु एकान्तगतबुद्धिभिः 050a
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् 050c
न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः 051a
विद्यते त्रिषु लोकेषु ततोऽस्म्यैकान्तिकं गतः 051c
इह चैवागतस्तेन विसृष्टः परमात्मना 051e
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः 052a
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः 052c