श्रीभगवानुवाच 001
सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसञ्ज्ञितैः 001a
बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक् 001c
बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् 002a
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन 002c
हृषीकेशोऽहमीशानो वरदो लोकभावनः 002e
इडोपहूतयोगेन हरे भागं क्रतुष्वहम् 003a
वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः 003c
धाम सारो हि लोकानामृतं चैव विचारितम् 004a
ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः 004c
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् 005a
गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः 005c
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् 006a
तेनाविष्टं हि यत्किञ्चिच्छिपिविष्टं हि तत्स्मृतम् 006c
यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् 007a
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् 007c
स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः 008a
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् 008c
न हि जातो न जायेऽहं न जनिष्ये कदाचन 009a
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः 009c
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन 010a
ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती 010c
सच्चासच्चैव कौन्तेय मयावेशितमात्मनि 011a
पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः 011c
सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् 012a
जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनञ्जय 012c
निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय 013a
सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः 013c
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् 014a
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन 014c
मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना 015a
वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम 015c
निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते 016a
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा 016c
पृथिवीनभसी चोभे विश्रुते विश्वलौकिके 017a
तयोः सन्धारणार्थं हि मामधोक्षजमञ्जसा 017c
निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः 018a
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः 018c
शब्द एकमतैरेष व्याहृतः परमर्षिभिः 019a
नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् 019c
घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् 020a
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः 020c
त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः 021a
पित्तं श्लेष्मा च वायुश्च एष सङ्घात उच्यते 021c
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते 022a
आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते 022c
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत 023a
नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम् 023c
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते 024a
तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः 024c
न चादिं न मध्यं तथा नैव चान्तं कदाचिद्विदन्ते सुराश्चासुराश्च 025a
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः प्रगीतोऽहमीशो विभुर्लोकसाक्षी 025c
शुचीनि श्रवणीयानि शृणोमीह धनञ्जय 026a
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः 026c
एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः 027a
इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् 027c
तथैवासं त्रिककुदो वाराहं रूपमास्थितः 028a
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् 028c
विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः 029a
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् 029c
विद्यासहायवन्तं मामादित्यस्थं सनातनम् 030a
कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः 030c
हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः 031a
योगैः सम्पूज्यते नित्यं स एवाहं विभुः स्मृतः 031c
एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते 032a
सहस्रशाखं यत्साम ये वै वेदविदो जनाः 032c
गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः 032e
षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत 033a
यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः 033c
पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् 034a
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा 034c
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः 035a
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् 035c
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् 036a
सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित् 036c
रामादेशितमार्गेण मत्प्रसादान्महात्मना 037a
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् 037c
बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः 037e
नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् 038a
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः 038c
कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् 039a
जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः 039c
सप्तजातिषु मुख्यत्वाद्योगानां सम्पदं गतः 039e
पुराहमात्मजः पार्थ प्रथितः कारणान्तरे 040a
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः 040c
नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् 041a
धर्मयानं समारूढौ पर्वते गन्धमादने 041c
तत्कालसमयं चैव दक्षयज्ञो बभूव ह 042a
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत 042c
ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् 043a
ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः 043c
तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् 044a
आवयोः सहसागच्छद्बदर्याश्रममन्तिकात् 044c
वेगेन महता पार्थ पतन्नारायणोरसि 044e
ततः स्वतेजसाविष्टाः केशा नारायणस्य ह 045a
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् 045c
तच्च शूलं विनिर्धूतं हुङ्कारेण महात्मना 046a
जगाम शङ्करकरं नारायणसमाहतम् 046c
अथ रुद्र उपाधावत्तावृषी तपसान्वितौ 047a
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना 047c
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता 047e
अथ रुद्रविघातार्थमिषीकां जगृहे नरः 048a
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् 048c
क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा 049a
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् 049c
अर्जुन उवाच 050
अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा 050a
जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन 050c
श्रीभगवानुवाच 051
तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः 051a
उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा 051c
नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः 052a
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् 052c
देवान्रजस्तमश्चैव समाविविशतुस्तदा 053a
वसुधा सञ्चकम्पेऽथ नभश्च विपफाल ह 053c
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः 054a
अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत 054c
तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन 055a
ब्रह्मा वृतो देवगणैर्ॠषिभिश्च महात्मभिः 055c
आजगामाशु तं देशं यत्र युद्धमवर्तत 055e
साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः 056a
उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् 056c
न्यस्यायुधानि विश्वेश जगतो हितकाम्यया 056e
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् 057a
कूटस्थं कर्तृनिर्द्वन्द्वमकर्तेति च यं विदुः 057c
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा 058a
नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ 058c
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ 059a
अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे 059c
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः 059e
मया च सार्धं वरदं विबुधैश्च महर्षिभिः 060a
प्रससादयाशु लोकानां शान्तिर्भवतु माचिरम् 060c
ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् 061a
प्रसादयामास ततो देवं नारायणं प्रभुम् 061c
शरणं च जगामाद्यं वरेण्यं वरदं हरिम् 061e
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः 062a
प्रीतिमानभवत्तत्र रुद्रेण सह सङ्गतः 062c
ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः 063a
उवाच देवमीशानमीशः स जगतो हरिः 063c
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु 064a
नावयोरन्तरं किञ्चिन्मा ते भूद्बुद्धिरन्यथा 064c
अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् 065a
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि 065c
एवं लक्षणमुत्पाद्य परस्परकृतं तदा 066a
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी 066c
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः 066e
एष ते कथितः पार्थ नारायणजयो मृधे 067a
नामानि चैव गुह्यानि निरुक्तानि च भारत 067c
ऋषिभिः कथितानीह यानि सङ्कीर्तितानि ते 067e
एवं बहुविधै रूपैश्चरामीह वसुन्धराम् 068a
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् 068c
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् 068e
यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते 069a
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् 069c
कालः स एव कथितः क्रोधजेति मया तव 070a
निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् 070c
अप्रमेयप्रभावं तं देवदेवमुमापतिम् 071a
नमस्व देवं प्रयतो विश्वेशं हरमव्ययम् 071c