अर्जुन उवाच 001
अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ 001a
एष मे संशयो जातस्तं छिन्धि मधुसूदन 001c
श्रीभगवानुवाच 002
हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन 002a
आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम 002c
सम्प्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते 003A
अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे 003B
ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके 003C
तम इत्येवाभिभूतेऽसञ्ज्ञकेऽद्वितीये प्रतिष्ठिते 003D
नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते 003E
एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसम्भवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् 003F
अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः 003G
निदर्शनमपि ह्यत्र भवति 004A
नासीदहो न रात्रिरासीत् 004B
न सदासीन्नासदासीत् 004C
तम एव पुरस्तादभवद्विश्वरूपम् 004D
सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते 004E
तस्येदानीं तमःसम्भवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज 005A
ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् 005B
यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः 005C
योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम् 005D
कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा 005E
ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् 005F
दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि 005G
भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति 005H
मन्त्रवादोऽपि हि भवति 006A
त्वमग्ने यज्ञानां होता विश्वेषाम् 006B
हितो देवेभिर्मानुषे जने इति 006C
निदर्शनं चात्र भवति 006D
विश्वेषामग्ने यज्ञानां होतेति 006E
हितो देवैर्मानुषैर्जगत इति 006F
अग्निर्हि यज्ञानां होता कर्ता 006G
स चाग्निर्ब्रह्म 006H
न ह्यृते मन्त्राद्धवनमस्ति 007A
न विना पुरुषं तपः सम्भवति 007B
हविर्मन्त्राणां सम्पूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः 007C
ये च मानुषा होत्राधिकारास्ते च 007D
ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः 007E
तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति 007F
यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति 007G
शतपथे हि ब्राह्मणं भवति 008A
अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति 008B
एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति 008C
अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति 008D
अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति 008E
विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् 009a
ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः 009c
ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च 010a
धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा 010c
नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः 011a
ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये 011c
नैषामुक्षा वर्धते नोत वाहा न गर्गरो मथ्यते सम्प्रदाने 012a
अपध्वस्ता दस्युभूता भवन्ति येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः 012c
वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः 013A
वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः 013B
इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च 013C
अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः 014A
कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप 014B
अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरन्दरस्य च्यवनेन स्तम्भितो बाहुः 014C
क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता 014D
त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः 015A
ततः प्रादुर्भूता भुजगाः 015B
तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः 015c
पूर्वे च मन्वन्तरे स्वायम्भुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा 015D
अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः 016A
अथ बृहस्पतिरपां चुक्रोध 016B
यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसङ्कीर्णाः कलुषीभवतेति 016C
तदाप्रभृत्यापो यादोभिः सङ्कीर्णाः संवृत्ताः 016D
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम् 017A
स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः 017B
अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त 018A
हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम् 018B
ततो देवा वर्धन्ते वयं क्षीयामः 018C
तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति 018D
अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच 019A
पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि 019B
नार्हस्येवं कर्तुमिति 019C
स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा सम्पूज्य हिरण्यकशिपुमगात् 019D
हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् 020A
यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति 020B
तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम् 020C
विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् 021A
तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज 021B
ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् 021C
सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति 021D
तास्त्वाष्ट्र उवाच 022A
क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति 022B
तास्तमब्रुवन् 022C
वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति 022D
अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति 023A
ततो मन्त्राञ्जजाप 023B
तैर्मन्त्रैः प्रावर्धत त्रिशिराः 023C
एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान् 023D
अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे 023E
देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च 024A
विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते 024B
वयमभागाः संवृत्ताः 024C
असुरपक्षो वर्धते वयं क्षीयामः 024D
तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति 024E
तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः 025A
स याच्यतां वरं यथा कलेवरं जह्यात् 025B
तस्यास्थिभिर्वज्रं क्रियतामिति 025C
देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे 026A
सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति 026B
तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् 026C
यद्वक्ष्यथ तत्करिष्यामीति 026D
ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति 026E
अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार 026F
तस्य परमात्मन्यवसृते तान्यस्थीनि धाता सङ्गृह्य वज्रमकरोत् 027A
तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसम्भूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान 027B
शिरसां चास्य छेदनमकरोत् 027C
तस्मादनन्तरं विश्वरूपगात्रमथनसम्भवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान 027D
तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु सम्भवां शीतलां मानससरोगतां नलिनीं प्रपेदे 028A
तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश 028B
अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव 029A
देवान्रजस्तमश्चाविवेश 029B
मन्त्रा न प्रावर्तन्त महर्षीणाम् 029C
रक्षांसि प्रादुरभवन् 029D
ब्रह्म चोत्सादनं जगाम 029E
अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः 029F
अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः 030A
नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव 030B
अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः 030C
अथोवाच नहुषः 031A
सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति 031B
स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् 031C
सुभगेऽहमिन्द्रो देवानां भजस्व मामिति 031D
तं शची प्रत्युवाच 031E
प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च 031F
नार्हसि परपत्नीधर्षणं कर्तुमिति 031G
तामथोवाच नहुषः 032A
ऐन्द्रं पदमध्यास्यते मया 032B
अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति 032C
सा तमुवाच 032D
अस्ति मम किञ्चिद्व्रतमपर्यवसितम् 032E
तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति 032F
स शच्यैवमभिहितो नहुषो जगाम 032G
अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत् 033A
स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच 033B
अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय 033c
सा तवेन्द्रं दर्शयिष्यतीति 033D
साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत् 034A
सोपश्रुतिः शचीसमीपमगात् 034B
उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता 034C
किं ते प्रियं करवाणीति 034D
तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति 034E
सैनां मानसं सरोऽनयत् 034F
तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् 034G
तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव 035A
अहो मम महद्दुःखमिदमद्योपगतम् 035B
नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति 035c
तामिन्द्र उवाच कथं वर्तयसीति 035D
सा तमुवाच 035E
नहुषो मामाह्वयति 035F
कालश्चास्य मया कृत इति 035G
तामिन्द्र उवाच 036A
गच्छ 036B
नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व 036C
इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया 036D
त्वमन्येनोपयातुमर्हसीति 036E
सैवमुक्ता हृष्टा जगाम 036F
इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः 036G
अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति 037A
तं शच्यब्रवीच्छक्रेण यथोक्तम् 037B
स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत् 037C
अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत् 038A
पद्भ्यां च तेनास्पृश्यत 038B
ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् 038C
सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति 038D
स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् 038E
अथानिन्द्रं पुनस्त्रैलोक्यमभवत् 039A
ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः 039B
ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति 039C
ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु 039D
ततः स्वं स्थानं प्राप्स्यतीति 039E
ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति 040A
सा पुनस्तत्सरः समभ्यगच्छत् 040B
इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम 040C
बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् 040D
ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास 040E
ततः स देवराड्देवैर्ॠषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव 041A
ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् 041B
एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः 041C
आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः 042A
स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः 042B
भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपनीतः 043AB
अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति 044A
तत्र बुधो व्रतचर्यासमाप्तावागच्छत् 044B
अदितिं चावोचद्भिक्षां देहीति 044C
तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् 044D
अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसञ्ज्ञितस्याण्डं मारितमदित्याः 044E
स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः 044F
दक्षस्य वै दुहितरः षष्टिरासन् 045A
ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे 045B
तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् 045C
ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः 045D
भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति 045E
सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति 045F
दक्षशापात्सोमं राजानं यक्ष्माविवेश 046A
स यक्ष्मणाविष्टो दक्षमगमत् 046B
दक्षश्चैनमब्रवीन्न समं वर्तस इति 046C
तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा 046D
पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् 046E
तत्र गत्वात्मानमभिषेचयस्वेति 046F
अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् 046G
गत्वा चात्मनः स्नपनमकरोत् 046H
स्नात्वा चात्मानं पाप्मनो मोक्षयामास 046I
तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव 046J
तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः 046K
पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति 046L
मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत् 046M
स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे 047A
तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत् 047B
स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत् 047C
तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति 047D
नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् 048A
तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः 048B
तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः 048C
स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः 048D
उक्तश्चापेयो भविष्यसि 048E
एतच्च ते तोयं वडवामुखसञ्ज्ञितेन पीयमानं मधुरं भविष्यति 048F
तदेतदद्यापि वडवामुखसञ्ज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते 048G
हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे 049A
भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति 049B
तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति 049C
तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति 049D
अद्यप्रभृत्येतदवस्थितमृषिवचनम् 049E
तदेवंविधं माहात्म्यं ब्राह्मणानाम् 050A
क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे 050B
तदेतद्ब्रह्माग्नीषोमीयम् 050C
तेन जगद्धार्यते 050D