जनमेजय उवाच 001
अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम् 001a
नामभिर्विविधैरेषां निरुक्तं भगवन्मम 001c
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः 002a
श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः 002c
वैशम्पायन उवाच 003
शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः 003a
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् 003c
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः 004a
पृष्टवान्केशवं राजन्फल्गुनः परवीरहा 004c
अर्जुन उवाच 005
भगवन्भूतभव्येश सर्वभूतसृगव्यय 005a
लोकधाम जगन्नाथ लोकानामभयप्रद 005c
यानि नामानि ते देव कीर्तितानि महर्षिभिः 006a
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः 006c
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव 007a
न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो 007c
श्रीभगवानुवाच 008
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु 008a
पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन 008c
साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च 009a
बहूनि मम नामानि कीर्तितानि महर्षिभिः 009c
गौणानि तत्र नामानि कर्मजानि च कानिचित् 010a
निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ 010c
कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा 010e
नमोऽतियशसे तस्मै देहिनां परमात्मने 011a
नारायणाय विश्वाय निर्गुणाय गुणात्मने 011c
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः 012a
योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च 012c
अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर 013a
प्रकृतिः सा परा मह्यं रोदसी योगधारिणी 013c
ऋता सत्यामराजय्या लोकानामात्मसञ्ज्ञिता 013e
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः 014a
ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् 014c
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः 014e
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः 015a
प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण 015c
तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः 015e
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा 016a
क्रोधाविष्टस्य सञ्जज्ञे रुद्रः संहारकारकः 016c
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ 017a
तदादेशितपन्थानौ सृष्टिसंहारकारकौ 017c
निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ 017e
कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः 018a
उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः 018c
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा 019a
नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे 019c
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे 020a
सम्पूजितो भवेत्पार्थ देवो नारायणः प्रभुः 020c
अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन 021a
तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् 021c
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् 022a
आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः 022c
मया प्रमाणं हि कृतं लोकः समनुवर्तते 022e
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् 023a
यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु 023c
रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम् 024a
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु 024c
न हि मे केनचिद्देयो वरः पाण्डवनन्दन 025a
इति सञ्चिन्त्य मनसा पुराणं विश्वमीश्वरम् 025c
पुत्रार्थमाराधितवानात्मानमहमात्मना 025e
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु 026a
ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम् 026c
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः 027a
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् 027c
भविष्यतां वर्ततां च भूतानां चैव भारत 028a
सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः 028c
नमस्व हव्यदं विष्णुं तथा शरणदं नम 029a
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम 029c
चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् 030a
तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः 030c
अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् 030e
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः 031a
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् 031c
ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः 032a
प्रबुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम् 032c
भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः 032e
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ 033a
भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् 033c
जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत 034a
निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च 034c
नराणामयनं ख्यातमहमेकः सनातनः 035a
आपो नारा इति प्रोक्ता आपो वै नरसूनवः 035c
अयनं मम तत्पूर्वमतो नारायणो ह्यहम् 035e
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः 036a
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् 036c
गतिश्च सर्वभूतानां प्रजानां चापि भारत 037a
व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम 037c
अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत 038a
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः 038c
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि 039a
दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम् 039c
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा 040a
ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम् 040c
ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम् 041a
पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् 041c
ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः 042a
उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् 042c
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत 043a
अंशवो ये प्रकाशन्ते मम ते केशसञ्ज्ञिताः 043c
सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः 043e
स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना 044a
उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया 044c
बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत 044e
ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा 045a
उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः 045c
पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् 046a
एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च 046c
मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः 047a
तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः 047c
स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् 048a
स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा 048c
वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् 049a
प्रयोजयामास तदा नाम गुह्यमिदं मम 049c
आनुपूर्व्येण विधिना केशवेति पुनः पुनः 050a
स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः 050c
एवं हि वरदं नाम केशवेति ममार्जुन 051a
देवानामथ सर्वेषामृषीणां च महात्मनाम् 051c
अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् 052a
अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम् 052c
अपि हि पुराणे भवति 053A
एकयोन्यात्मकावग्नीषोमौ 053B
देवाश्चाग्निमुखा इति 053C
एकयोनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति 053D