जनमेजय उवाच 001
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः 001a
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा 001c
निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः 002a
प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः 002c
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः 003a
कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः 003c
एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् 004a
त्वया नारायणकथा श्रुता वै धर्मसंहिता 004c
इमे सब्रह्मका लोकाः ससुरासुरमानवाः 005a
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः 005c
मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् 005e
ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः 006a
ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः 006c
अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः 007a
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् 007c
किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः 008a
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च 008c
आकाशं जगती चैव ये च शेषा दिवौकसः 008e
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् 009a
ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम् 009c
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः 010a
दोषः कालपरीमाणे महानेष क्रियावताम् 010c
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् 011a
छिन्धीतिहासकथनात्परं कौतूहलं हि मे 011c
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज 012a
किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः 012c
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम 013a
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै 013c
वैशम्पायन उवाच 014
अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर 014a
नातप्ततपसा ह्येष नावेदविदुषा तथा 014c
नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा 014e
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः 015a
कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः 015c
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः 016a
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः 016c
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् 017a
शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् 017c
वेदानध्यापयामास महाभारतपञ्चमान् 018a
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते 018c
तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् 019a
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः 019c
ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत 019e
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः 020a
पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह 020c
मया हि सुमहत्तप्तं तपः परमदारुणम् 021a
भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः 021c
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च 022a
नारायणप्रसादेन क्षीरोदस्यानुकूलतः 022c
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् 023a
तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम् 023c
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा 023e
परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः 024a
महापुरुषसञ्ज्ञां स लभते स्वेन कर्मणा 024c
तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः 025a
अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् 025c
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते 026a
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् 026c
सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः 026e
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 027a
अहङ्कारप्रसूतानि महाभूतानि भारत 027c
महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः 028a
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु 028c
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः 029a
वसिष्ठश्च महात्मा वै मनुः स्वायम्भुवस्तथा 029c
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः 029e
वेदान्वेदाङ्गसंयुक्तान्यज्ञान्यज्ञाङ्गसंयुतान् 030a
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः 030c
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् 030e
रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वयम् 031a
एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः 031c
ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः 032a
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः 032c
वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना 033a
येन यस्मिन्नधीकारे वर्तितव्यं पितामह 033c
योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः 034a
परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा 034c
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः 035a
एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् 035c
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः 036a
ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता 036c
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः 037a
कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे 037c
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् 038a
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् 038c
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा 039a
क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः 039c
ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् 040a
स महानियमो नाम तपश्चर्या सुदारुणा 040c
ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत् 041a
एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः 041c
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम् 042a
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् 042c
भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः 043a
स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् 043c
विज्ञातं वो मया कार्यं तच्च लोकहितं महत् 044a
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् 044c
सुतप्तं वस्तपो देवा ममाराधनकाम्यया 045a
भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम् 045c
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः 046a
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः 046c
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः 047a
तथा श्रेयो विधास्यामि यथाधीकारमीश्वराः 047c
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः 048a
ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः 048c
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् 049a
तस्मिन्सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् 049c
देवा देवर्षयश्चैव सर्वे भागानकल्पयन् 049e
ते कार्तयुगधर्माणो भागाः परमसत्कृताः 050a
प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् 050c
बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् 050e
ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान् 051a
अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः 051c
येन यः कल्पितो भागः स तथा समुपागतः 052a
प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् 052c
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् 053a
यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः 053c
युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः 053e
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः 054a
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् 054c
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ 055a
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः 055c
यूयं लोकान्धारयध्वं यज्ञभागफलोदिताः 056a
सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः 056c
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः 057a
ताभिराप्यायितबला लोकान्वै धारयिष्यथ 057c
यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः 058a
मां ततो भावयिष्यध्वमेषा वो भावना मम 058c
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह 059a
एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ 059c
निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् 060a
मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिति 060c
चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः 060e
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः 061a
वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै 061c
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः 062a
प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः 062c
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः 063a
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः 063c
सनः सनत्सुजातश्च सनकः ससनन्दनः 064a
सनत्कुमारः कपिलः सप्तमश्च सनातनः 064c
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः 065a
स्वयमागतविज्ञाना निवृत्तं धर्ममास्थिताः 065c
एते योगविदो मुख्याः साङ्ख्यधर्मविदस्तथा 066a
आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः 066c
यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान् 067a
तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः 067c
सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः 067e
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि 068a
प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः 068c
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः 069a
एष माता पिता चैव युष्माकं च पितामहः 069c
मयानुशिष्टो भविता सर्वभूतवरप्रदः 069e
अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः 070a
ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः 070c
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि 071a
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् 071c
प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस्तथा 072a
परिनिर्मितकालानि आयूंषि च सुरोत्तमाः 072c
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते 073a
अहिंस्या यज्ञपशवो युगेऽस्मिन्नैतदन्यथा 073c
चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः 073e
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति 074a
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे 074c
तत्र पादचतुर्थो वै धर्मस्य न भविष्यति 074e
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति 075a
द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति 075c
ततस्तिष्येऽथ सम्प्राप्ते युगे कलिपुरस्कृते 076a
एकपादस्थितो धर्मो यत्र तत्र भविष्यति 076c
देवा ऊचुः 077
एकपादस्थिते धर्मे यत्रक्वचनगामिनि 077a
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः 077c
श्रीभगवानुवाच 078
यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा 078a
अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः 078c
स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् 078e
व्यास उवाच 079
तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा 079a
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् 079c
गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः 080a
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् 080c
तं देवो दर्शयामास कृत्वा हयशिरो महत् 081a
साङ्गानावर्तयन्वेदान्कमण्डलुगणित्रधृक् 081c
ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् 082a
लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया 082c
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः 083a
स परिष्वज्य देवेन वचनं श्रावितस्तदा 083c
लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि 084a
धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः 084c
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा 084e
यदा च सुरकार्यं ते अविषह्यं भविष्यति 085a
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः 085c
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत 086a
तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः 086c
एवमेष महाभागः पद्मनाभः सनातनः 087a
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा 087c
निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम् 088a
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् 088c
स आदिः स मध्यः स चान्तः प्रजानां स धाता स धेयः स कर्ता स कार्यम् 089a
युगान्ते स सुप्तः सुसङ्क्षिप्य लोकान्युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज 089c
तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने 090a
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् 090c
महाभूताधिपतये रुद्राणां पतये तथा 091a
आदित्यपतये चैव वसूनां पतये तथा 091c
अश्विभ्यां पतये चैव मरुतां पतये तथा 092a
वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च 092c
समुद्रवासिने नित्यं हरये मुञ्जकेशिने 093a
शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे 093c
तपसां तेजसां चैव पतये यशसोऽपि च 094a
वाचश्च पतये नित्यं सरितां पतये तथा 094c
कपर्दिने वराहाय एकशृङ्गाय धीमते 095a
विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा 095c
गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च 096a
एष देवः सञ्चरति सर्वत्रगतिरव्ययः 096c
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा 097a
कथितं तच्च वः सर्वं मया पृष्टेन तत्त्वतः 097c
क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः 098a
गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि 098c
वैशम्पायन उवाच 099
इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता 099a
सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित् 099c
स चास्माकमुपाध्यायः सहास्माभिर्विशां पते 100a
चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे 100c
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 101a
एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः 101c
यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् 102a
नमो भगवते कृत्वा समाहितमना नरः 102c
भवत्यरोगो द्युतिमान्बलरूपसमन्वितः 103a
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् 103c
कामकामी लभेत्कामं दीर्घमायुरवाप्नुयात् 104a
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् 104c
वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् 104e
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् 105a
लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् 105c
वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् 105e
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि 106a
यो यं कामं कामयते स तमाप्नोति च ध्रुवम् 106c
इदं महर्षेर्वचनं विनिश्चितं महात्मनः पुरुषवरस्य कीर्तनम् 107a
समागमं चर्षिदिवौकसामिमं निशम्य भक्ताः सुसुखं लभन्ते 107c