भीष्म उवाच 001
एवं स्तुतः स भगवान्गुह्यैस्तथ्यैश्च नामभिः 001a
तं मुनिं दर्शयामास नारदं विश्वरूपधृक् 001c
किञ्चिच्चन्द्रविशुद्धात्मा किञ्चिच्चन्द्राद्विशेषवान् 002a
कृशानुवर्णः किञ्चिच्च किञ्चिद्धिष्ण्याकृतिः प्रभुः 002c
शुकपत्रवर्णः किञ्चिच्च किञ्चित्स्फटिकसप्रभः 003a
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित् 003c
प्रवालाङ्कुरवर्णश्च श्वेतवर्णः क्वचिद्बभौ 004a
क्वचित्सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित् 004c
नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित् 005a
मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित् 005c
एतान्वर्णान्बहुविधान्रूपे बिभ्रत्सनातनः 006a
सहस्रनयनः श्रीमाञ्शतशीर्षः सहस्रपात् 006c
सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित् 007a
ओङ्कारमुद्गिरन्वक्त्रात्सावित्रीं च तदन्वयाम् 007c
शेषेभ्यश्चैव वक्त्रेभ्यश्चतुर्वेदोद्गतं वसु 008a
आरण्यकं जगौ देवो हरिर्नारायणो वशी 008c
वेदीं कमण्डलुं दर्भान्मणिरूपानथोपलान् 009a
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम् 009c
धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा 009e
तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः 010a
वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम् 010c
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः 010e
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः 011a
इमं देशमनुप्राप्ता मम दर्शनलालसाः 011c
न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन 012a
ऋते ह्येकान्तिकश्रेष्ठात्त्वं चैवैकान्तिको मतः 012c
ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज 013a
तास्त्वं भजस्व सततं साधयस्व यथागतम् 013c
वृणीष्व च वरं विप्र मत्तस्त्वं यमिहेच्छसि 014a
प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः 014c
नारद उवाच 015
अद्य मे तपसो देव यमस्य नियमस्य च 015a
सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया 015c
वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः 016a
भगवान्विश्वदृक्सिंहः सर्वमूर्तिर्महाप्रभुः 016c
भीष्म उवाच 017
एवं सन्दर्शयित्वा तु नारदं परमेष्ठिजम् 017a
उवाच वचनं भूयो गच्छ नारद माचिरम् 017c
इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः 018a
एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति 018c
सिद्धाश्चैते महाभागाः पुरा ह्येकान्तिनोऽभवन् 019a
तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम् 019c
न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च 020a
न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः 020c
सत्त्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै 021a
यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते 021c
भूतग्रामशरीरेषु नश्यत्सु न विनश्यति 022a
अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा 022c
द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः 023a
पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते 023c
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम 024a
स वासुदेवो विज्ञेयः परमात्मा सनातनः 024c
पश्य देवस्य माहात्म्यं महिमानं च नारद 025a
शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन 025c
सत्त्वं रजस्तमश्चैव गुणानेतान्प्रचक्षते 026a
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च 026c
एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते 027a
निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणाधिकः 027c
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते 028a
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते 028c
खे वायुः प्रलयं याति मनस्याकाशमेव च 029a
मनो हि परमं भूतं तदव्यक्ते प्रलीयते 029c
अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते 030a
नास्ति तस्मात्परतरं पुरुषाद्वै सनातनात् 030c
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् 031a
ऋते तमेकं पुरुषं वासुदेवं सनातनम् 031c
सर्वभूतात्मभूतो हि वासुदेवो महाबलः 031e
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 032a
ते समेता महात्मानः शरीरमिति सञ्ज्ञितम् 032c
तदाविशति यो ब्रह्मन्नदृश्यो लघुविक्रमः 033a
उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः 033c
न विना धातुसङ्घातं शरीरं भवति क्वचित् 034a
न च जीवं विना ब्रह्मन्धातवश्चेष्टयन्त्युत 034c
स जीवः परिसङ्ख्यातः शेषः सङ्कर्षणः प्रभुः 035a
तस्मात्सनत्कुमारत्वं यो लभेत स्वकर्मणा 035c
यस्मिंश्च सर्वभूतानि प्रलयं यान्ति सङ्क्षये 036a
स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते 036c
तस्मात्प्रसूतो यः कर्ता कार्यं कारणमेव च 037a
यस्मात्सर्वं प्रभवति जगत्स्थावरजङ्गमम् 037c
सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु 037e
यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः 038a
ज्ञेयः स एव भगवाञ्जीवः सङ्कर्षणः प्रभुः 038c
सङ्कर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते 039a
प्रद्युम्नाद्योऽनिरुद्धस्तु सोऽहङ्कारो महेश्वरः 039c
मत्तः सर्वं सम्भवति जगत्स्थावरजङ्गमम् 040a
अक्षरं च क्षरं चैव सच्चासच्चैव नारद 040c
मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम 041a
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः 041c
निर्गुणो निष्कलश्चैव निर्द्वन्द्वो निष्परिग्रहः 042a
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते 042c
इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः 042e
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद 043a
सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि 043c
मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम् 043e
सिद्धा ह्येते महाभागा नरा ह्येकान्तिनोऽभवन् 044a
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने 044c
अहं कर्ता च कार्यं च कारणं चापि नारद 045a
अहं हि जीवसञ्ज्ञो वै मयि जीवः समाहितः 045c
मैवं ते बुद्धिरत्राभूद्दृष्टो जीवो मयेति च 045e
अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः 046a
भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम् 046c
हिरण्यगर्भो लोकादिश्चतुर्वक्त्रो निरुक्तगः 047a
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः 047c
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान् 048a
द्वादशैव तथादित्यान्वामं पार्श्वं समास्थितान् 048c
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान् 049a
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः 049c
सर्वान्प्रजापतीन्पश्य पश्य सप्त ऋषीनपि 050a
वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः 050c
तपांसि नियमांश्चैव यमानपि पृथग्विधान् 051a
तथाष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत् 051c
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम् 052a
वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् 052c
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम् 053a
अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा 053c
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम 054a
त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान् 054c
देवकार्यादपि मुने पितृकार्यं विशिष्यते 055a
देवानां च पितॄणां च पिता ह्येकोऽहमादितः 055c
अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे 056a
पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम् 056c
मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्स्वयम् 057a
ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमान् 057c
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च 058a
अहङ्कारकृतं चैव नाम पर्यायवाचकम् 058c
त्वया कृतां च मर्यादां नातिक्राम्यति कश्चन 059a
त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि 059c
सुरासुरगणानां च ऋषीणां च तपोधन 060a
पितॄणां च महाभाग सततं संशितव्रत 060c
विविधानां च भूतानां त्वमुपास्यो भविष्यसि 060e
प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा 061a
अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा 061c
एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे 062a
अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम् 062c
निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता 063a
तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः 063c
विद्यासहायवन्तं मामादित्यस्थं सनातनम् 064a
कपिलं प्राहुराचार्याः साङ्ख्यनिश्चितनिश्चयाः 064c
हिरण्यगर्भो भगवानेष छन्दसि सुष्टुतः 065a
सोऽहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः 065c
एषोऽहं व्यक्तिमागम्य तिष्ठामि दिवि शाश्वतः 066a
ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः 066c
कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च 066e
एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम 067a
ततो भूयो जगत्सर्वं करिष्यामीह विद्यया 067c
अस्मन्मूर्तिश्चतुर्थी या सासृजच्छेषमव्ययम् 068a
स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्यजीजनत् 068c
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः 069a
अनिरुद्धात्तथा ब्रह्मा तत्रादिकमलोद्भवः 069c
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च 070a
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः 070c
यथा सूर्यस्य गगनादुदयास्तमयाविह 071a
नष्टौ पुनर्बलात्काल आनयत्यमितद्युतिः 071c
तथा बलादहं पृथ्वीं सर्वभूतहिताय वै 071e
सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् 072a
आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः 072c
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् 073a
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः 073c
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् 073e
विरोचनस्य बलवान्बलिः पुत्रो महासुरः 074a
भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति 074c
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ 075a
अदित्यां द्वादशः पुत्रः सम्भविष्यामि कश्यपात् 075c
ततो राज्यं प्रदास्यामि शक्रायामिततेजसे 076a
देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद 076c
बलिं चैव करिष्यामि पातालतलवासिनम् 076e
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः 077a
क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् 077c
सन्धौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च 078a
रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः 078c
त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा 079a
प्राप्स्यतो वानरत्वं हि प्रजापतिसुतावृषी 079c
तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः 080a
ते सहाया भविष्यन्ति सुरकार्ये मम द्विज 080c
ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् 081a
हनिष्ये रावणं सङ्ख्ये सगणं लोककण्टकम् 081c
द्वापरस्य कलेश्चैव सन्धौ पर्यवसानिके 082a
प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति 082c
तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान् 083a
कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् 083c
वसानस्तत्र वै पुर्यामदितेर्विप्रियङ्करम् 084a
हनिष्ये नरकं भौमं मुरं पीठं च दानवम् 084c
प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम् 085a
कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान् 085c
शङ्करं च महासेनं बाणप्रियहितैषिणम् 086a
पराजेष्याम्यथोद्युक्तौ देवलोकनमस्कृतौ 086c
ततः सुतं बलेर्जित्वा बाणं बाहुसहस्रिणम् 087a
विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः 087c
यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः 088a
भविष्यति वधस्तस्य मत्त एव द्विजोत्तम 088c
जरासन्धश्च बलवान्सर्वराजविरोधकः 089a
भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे 089c
मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति 089e
समागतेषु बलिषु पृथिव्यां सर्वराजसु 090a
वासविः सुसहायो वै मम ह्येको भविष्यति 090c
एवं लोका वदिष्यन्ति नरनारायणावृषी 091a
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ 091c
कृत्वा भारावतरणं वसुधाया यथेप्सितम् 092a
सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम 092c
करिष्ये प्रलयं घोरमात्मज्ञातिविनाशनम् 092e
कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् 093a
कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान् 093c
हंसो हयशिराश्चैव प्रादुर्भावा द्विजोत्तम 094a
यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता तदा 094c
सवेदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे 094e
अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित् 095a
अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः 095c
लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः 095e
न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् 096a
यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना 096c
एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया 097a
पुराणं च भविष्यं च सरहस्यं च सत्तम 097c
एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः 098a
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत 098c
नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् 099a
नरनारायणौ द्रष्टुं प्राद्रवद्बदराश्रमम् 099c
इदं महोपनिषदं चतुर्वेदसमन्वितम् 100a
साङ्ख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् 100c
नारायणमुखोद्गीतं नारदोऽश्रावयत्पुनः 101a
ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम् 101c
युधिष्ठिर उवाच 102
एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः 102a
किं ब्रह्मा न विजानीते यतः शुश्राव नारदात् 102c
पितामहो हि भगवांस्तस्माद्देवादनन्तरः 103a
कथं स न विजानीयात्प्रभावममितौजसः 103c
भीष्म उवाच 104
महाकल्पसहस्राणि महाकल्पशतानि च 104a
समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह 104c
सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः 105a
जानाति देवप्रवरं भूयश्चातोऽधिकं नृप 105c
परमात्मानमीशानमात्मनः प्रभवं तथा 105e
ये त्वन्ये ब्रह्मसदने सिद्धसङ्घाः समागताः 106a
तेभ्यस्तच्छ्रावयामास पुराणं वेदसम्मितम् 106c
तेषां सकाशात्सूर्यश्च श्रुत्वा वै भावितात्मनाम् 107a
आत्मानुगामिनां ब्रह्म श्रावयामास भारत 107c
षट्षष्टिर्हि सहस्राणि ऋषीणां भावितात्मनाम् 108a
सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः 108c
तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् 108e
सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः 109a
मेरौ समागता देवाः श्राविताश्चेदमुत्तमम् 109c
देवानां तु सकाशाद्वै ततः श्रुत्वासितो द्विजः 110a
श्रावयामास राजेन्द्र पितॄणां मुनिसत्तमः 110c
मम चापि पिता तात कथयामास शन्तनुः 111a
ततो मयैतच्छ्रुत्वा च कीर्तितं तव भारत 111c
सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् 112a
सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः 112c
इदमाख्यानमार्षेयं पारम्पर्यागतं नृप 113a
नावासुदेवभक्ताय त्वया देयं कथञ्चन 113c
मत्तोऽन्यानि च ते राजन्नुपाख्यानशतानि वै 114a
यानि श्रुतानि धर्म्याणि तेषां सारोऽयमुद्धृतः 114c
सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम् 115a
एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम् 115c
यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः 116a
एकान्तभावोपगत एकान्ते सुसमाहितः 116c
प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः 117a
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः 117c
मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् 118a
जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत् 118c
त्वयापि सततं राजन्नभ्यर्च्यः पुरुषोत्तमः 119a
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः 119c
ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः 120a
युधिष्ठिर महाबाहो महाबाहुर्जनार्दनः 120c
वैशम्पायन उवाच 121
श्रुत्वैतदाख्यानवरं धर्मराड्जनमेजय 121a
भ्रातरश्चास्य ते सर्वे नारायणपराभवन् 121c
जितं भगवता तेन पुरुषेणेति भारत 122a
नित्यं जप्यपरा भूत्वा सरस्वतीमुदीरयन् 122c
यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः 123a
स जगौ परमं जप्यं नारायणमुदीरयन् 123c
गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम् 124a
पूजयित्वा च देवेशं पुनरायात्स्वमाश्रमम् 124c