युधिष्ठिर उवाच 001
यदा भक्तो भगवत आसीद्राजा महावसुः 001a
किमर्थं स परिभ्रष्टो विवेश विवरं भुवः 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
ऋषीणां चैव संवादं त्रिदशानां च भारत 002c
अजेन यष्टव्यमिति देवाः प्राहुर्द्विजोत्तमान् 003a
स च छागो ह्यजो ज्ञेयो नान्यः पशुरिति स्थितिः 003c
ऋषय ऊचुः 004
बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः 004a
अजसञ्ज्ञानि बीजानि छागं न घ्नन्तुमर्हथ 004c
नैष धर्मः सतां देवा यत्र वध्येत वै पशुः 005a
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः 005c
भीष्म उवाच 006
तेषां संवदतामेवमृषीणां विबुधैः सह 006a
मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः 006c
अन्तरिक्षचरः श्रीमान्समग्रबलवाहनः 006e
तं दृष्ट्वा सहसायान्तं वसुं ते त्वन्तरिक्षगम् 007a
ऊचुर्द्विजातयो देवानेष छेत्स्यति संशयम् 007c
यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः 008a
कथं स्विदन्यथा ब्रूयाद्वाक्यमेष महान्वसुः 008c
एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा 009a
अपृच्छन्सहसाभ्येत्य वसुं राजानमन्तिकात् 009c
भो राजन्केन यष्टव्यमजेनाहो स्विदौषधैः 010a
एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः 010c
स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः 011a
कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः 011c
ऋषय ऊचुः 012
धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप 012a
देवानां तु पशुः पक्षो मतो राजन्वदस्व नः 012c
भीष्म उवाच 013
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् 013a
छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा 013c
कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः 014a
ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् 014c
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत 015a
अद्य प्रभृति ते राजन्नाकाशे विहता गतिः 015c
अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि 015e
ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा 016a
अधो वै सम्बभूवाशु भूमेर्विवरगो नृपः 016c
स्मृतिस्त्वेनं न प्रजहौ तदा नारायणाज्ञया 016e
देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् 017a
चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत् 017c
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना 018a
अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः 018c
इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः 019a
ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा 019c
ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् 020a
कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम् 020c
मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् 021a
अवश्यं तपसा तेषां फलितव्यं नृपोत्तम 021c
यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् 022a
एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम 022c
यावत्त्वं शापदोषेण कालमासिष्यसेऽनघ 023a
भूमेर्विवरगो भूत्वा तावन्तं कालमाप्स्यसि 023c
यज्ञेषु सुहुतां विप्रैर्वसोर्धारां महात्मभिः 023e
प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत् 024a
न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः 024c
वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च 025a
स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति 025c
एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः 026a
गताः स्वभवनं देवा ऋषयश्च तपोधनाः 026c
चक्रे च सततं पूजां विष्वक्सेनाय भारत 027a
जप्यं जगौ च सततं नारायणमुखोद्गतम् 027c
तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिन्दम 028a
अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन् 028c
ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः 029a
अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः 029c
वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम् 030a
गरुत्मन्तं महावेगमाबभाषे स्मयन्निव 030c
द्विजोत्तम महाभाग गम्यतां वचनान्मम 031a
सम्राड्राजा वसुर्नाम धर्मात्मा मां समाश्रितः 031c
ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम् 032a
मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम 032c
भूमेर्विवरसङ्गुप्तं गरुडेह ममाज्ञया 033a
अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम् 033c
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान् 034a
विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः 034c
तत एनं समुत्क्षिप्य सहसा विनतासुतः 035a
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत 035c
तस्मिन्मुहूर्ते सञ्जज्ञे राजोपरिचरः पुनः 036a
सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः 036c
एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया 037a
प्राप्ता गतिरयज्वार्हा द्विजशापान्महात्मना 037c
केवलं पुरुषस्तेन सेवितो हरिरीश्वरः 038a
ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च 038c
एतत्ते सर्वमाख्यातं ते भूता मानवा यथा 039a
नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः 039c
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप 039e