भीष्म उवाच 001
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते 001a
बभूवुर्निर्वृता देवा जाते देवपुरोहिते 001c
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः 002a
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः 002c
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः 003a
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम् 003c
स राजा भावितः पूर्वं दैवेन विधिना वसुः 004a
पालयामास पृथिवीं दिवमाखण्डलो यथा 004c
तस्य यज्ञो महानासीदश्वमेधो महात्मनः 005a
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह 005c
प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः 006a
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः 006c
धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू 007a
ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः 007c
ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः 008a
कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः 008c
आद्यः कठस्तैत्तिरिश्च वैशम्पायनपूर्वजः 009a
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः 009c
सम्भृताः सर्वसम्भारास्तस्मिन्राजन्महाक्रतौ 009e
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् 010a
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः 010c
आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः 010e
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः 011a
साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित् 011c
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान् 012a
अदृश्येन हृतो भागो देवेन हरिमेधसा 012c
बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः 013a
आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत् 013c
उवाच चोपरिचरं मया भागोऽयमुद्यतः 014a
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः 014c
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह 015a
किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः 015c
ततः स तं समुद्धूतं भूमिपालो महान्वसुः 016a
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः 016c
ऊचुश्चैनमसम्भ्रान्ता न रोषं कर्तुमर्हसि 017a
नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः 017c
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः 018a
न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते 018c
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति 018e
एकतद्वितत्रिता ऊचुः 019
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः 019a
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् 019c
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् 020a
एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः 020c
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः 021a
स देशो यत्र नस्तप्तं तपः परमदारुणम् 021c
कथं पश्येमहि वयं देवं नारायणं त्विति 021e
ततो व्रतस्यावभृथे वागुवाचाशरीरिणी 022a
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना 022c
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् 023a
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः 023c
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः 024a
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् 024c
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् 025a
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः 025c
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः 026a
गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः 026c
अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम् 027a
यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे 027c
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः 028a
ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत् 028c
न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः 029a
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् 029c
न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा 030a
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् 030c
व्रतावसाने सुशुभान्नरान्ददृशिरे वयम् 031a
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् 031c
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान् 032a
मानसो नाम स जपो जप्यते तैर्महात्मभिः 032c
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः 032e
या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये 033a
एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह 033c
तेजोनिवासः स द्वीप इति वै मेनिरे वयम् 034a
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः 034c
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् 035a
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते 035c
सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् 036a
कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः 036c
ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम् 037a
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः 037c
वयं तु तेजसा तस्य सहसा हृतचेतसः 038a
न किञ्चिदपि पश्यामो हृतदृष्टिबलेन्द्रियाः 038c
एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः 039a
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन 039c
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज 040a
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः 040c
एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः 041a
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा 041c
तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः 042a
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता 042c
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया 042e
मारुते सन्निवृत्ते च बलौ च प्रतिपादिते 043a
चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर 043c
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु 044a
अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत् 044c
तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः 045a
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः 045c
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान् 046a
उवाच खस्थं किमपि भूतं तत्राशरीरकम् 046c
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः 047a
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः 047c
गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् 048a
न स शक्यो अभक्तेन द्रष्टुं देवः कथञ्चन 048c
कामं कालेन महता एकान्तित्वं समागतैः 049a
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः 049c
महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः 050a
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च 050c
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः 051a
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ 051c
ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप 052a
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा 052c
एवं सुतपसा चैव हव्यकव्यैस्तथैव च 053a
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि 053c
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् 053e
भीष्म उवाच 054
एवमेकतवाक्येन द्वितत्रितमतेन च 054a
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः 054c
समानीय ततो यज्ञं दैवतं समपूजयत् 054e
समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः 055a
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः 055c
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः 056a
नारायणपरो भूत्वा नारायणपदं जगौ 056c
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः 057a
महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् 057c
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा 057e