भीष्म उवाच 001
स एवमुक्तो द्विपदां वरिष्ठो नारायणेनोत्तमपूरुषेण 001a
जगाद वाक्यं द्विपदां वरिष्ठं नारायणं लोकहिताधिवासम् 001c
यदर्थमात्मप्रभवेह जन्म तवोत्तमं धर्मगृहे चतुर्धा 002a
तत्साध्यतां लोकहितार्थमद्य गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् 002c
वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् 003a
पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम् 003c
गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम् 004a
तं चादिदेवं सततं प्रपन्न एकान्तभावेन वृणोम्यजस्रम् 004c
एभिर्विशेषैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमीशम् 004e
तत्पारमेष्ठ्यस्य वचो निशम्य नारायणः सात्वतधर्मगोप्ता 005a
गच्छेति तं नारदमुक्तवान्स सम्पूजयित्वात्मविधिक्रियाभिः 005c
ततो विसृष्टः परमेष्ठिपुत्रः सोऽभ्यर्चयित्वा तमृषिं पुराणम् 006a
खमुत्पपातोत्तमवेगयुक्तस्ततोऽधिमेरौ सहसा निलिल्ये 006c
तत्रावतस्थे च मुनिर्मुहूर्तमेकान्तमासाद्य गिरेः स शृङ्गे 007a
आलोकयन्नुत्तरपश्चिमेन ददर्श चात्यद्भुतरूपयुक्तम् 007c
क्षीरोदधेरुत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः 008a
मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः 008c
अतीन्द्रियाश्चानशनाश्च तत्र निष्पन्दहीनाः सुसुगन्धिनश्च 009a
श्वेताः पुमांसो गतसर्वपापाश्चक्षुर्मुषः पापकृतां नराणाम् 009c
वज्रास्थिकायाः सममानोन्माना दिव्यान्वयरूपाः शुभसारोपेताः 010a
छत्राकृतिशीर्षा मेघौघनिनादाः सत्पुष्करचतुष्का राजीवशतपादाः 010c
षष्ट्या दन्तैर्युक्ताः शुक्लैरष्टाभिर्दंष्ट्राभिर्ये 011a
जिह्वाभिर्ये विष्वग्वक्त्रं लेलिह्यन्ते सूर्यप्रख्यम् 011c
भक्त्या देवं विश्वोत्पन्नं यस्मात्सर्वे लोकाः सूताः 012a
वेदा धर्मा मुनयः शान्ता देवाः सर्वे तस्य विसर्गाः 012c
युधिष्ठिर उवाच 013
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः 013a
कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा 013c
ये विमुक्ता भवन्तीह नरा भरतसत्तम 014a
तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् 014c
तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे 015a
त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम् 015c
भीष्म उवाच 016
विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसन्निधौ 016a
सैषा तव हि वक्तव्या कथासारो हि स स्मृतः 016c
राजोपरिचरो नाम बभूवाधिपतिर्भुवः 017a
आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् 017c
धार्मिको नित्यभक्तश्च पितॄन्नित्यमतन्द्रितः 018a
साम्राज्यं तेन सम्प्राप्तं नारायणवरात्पुरा 018c
सात्वतं विधिमास्थाय प्राक्सूर्यमुखनिःसृतम् 019a
पूजयामास देवेशं तच्छेषेण पितामहान् 019c
पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः 020a
शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः 020c
सर्वभावेन भक्तः स देवदेवं जनार्दनम् 020e
तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन 021a
एकशय्यासनं शक्रो दत्तवान्देवराट्स्वयम् 021c
आत्मा राज्यं धनं चैव कलत्रं वाहनानि च 022a
एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा 022c
काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः 023a
सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः 023c
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः 024a
प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् 024c
तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः 025a
नानृता वाक्समभवन्मनो दुष्टं न चाभवत् 025c
न च कायेन कृतवान्स पापं परमण्वपि 025e
ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः 026a
तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् 026c
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः 027a
वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः 027c
सप्त प्रकृतयो ह्येतास्तथा स्वायम्भुवोऽष्टमः 028a
एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम् 028c
एकाग्रमनसो दान्ता मुनयः संयमे रताः 029a
इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् 029c
लोकान्सञ्चिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे 029e
तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः 030a
मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः 030c
आराध्य तपसा देवं हरिं नारायणं प्रभुम् 031a
दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह 031c
नारायणानुशास्ता हि तदा देवी सरस्वती 032a
विवेश तानृषीन्सर्वाल्ँलोकानां हितकाम्यया 032c
ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः 033a
शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा 033c
आदावेव हि तच्छास्त्रमोङ्कारस्वरभूषितम् 034a
ऋषिभिर्भावितं तत्र यत्र कारुणिको ह्यसौ 034c
ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः 035a
ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः 035c
कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् 036a
लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते 036c
प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति 037a
ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा 037c
तथा प्रमाणं हि मया कृतो ब्रह्मा प्रसादजः 038a
रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा 038c
सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च 039a
सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् 039c
अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः 040a
सर्वे प्रमाणं हि यथा तथैतच्छास्त्रमुत्तमम् 040c
भविष्यति प्रमाणं वै एतन्मदनुशासनम् 041a
अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायम्भुवः स्वयम् 041c
उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः 042a
तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् 042c
स्वायम्भुवेषु धर्मेषु शास्त्रे चोशनसा कृते 043a
बृहस्पतिमते चैव लोकेषु प्रविचारिते 043c
युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः 044a
बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः 044c
स हि मद्भावितो राजा मद्भक्तश्च भविष्यति 045a
तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति 045c
एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसञ्ज्ञितम् 046a
एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम् 046c
अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ 047a
स च राजा श्रिया युक्तो भविष्यति महान्वसुः 047c
संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम् 048a
अन्तर्धास्यति तत्सत्यमेतद्वः कथितं मया 048c
एतावदुक्त्वा वचनमदृश्यः पुरुषोत्तमः 049a
विसृज्य तानृषीन्सर्वान्कामपि प्रस्थितो दिशम् 049c
ततस्ते लोकपितरः सर्वलोकार्थचिन्तकाः 050a
प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम् 050c
उत्पन्नेऽऽङ्गिरसे चैव युगे प्रथमकल्पिते 051a
साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ 051c
जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः 052a
धारणात्सर्वलोकानां सर्वधर्मप्रवर्तकाः 052c