युधिष्ठिर उवाच 001
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः 001a
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः 001c
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् 002a
विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च 002c
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः 003a
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः 003c
देवतानां च को देवः पितॄणां च तथा पिता 004a
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह 004c
भीष्म उवाच 005
गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ 005a
न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि 005c
ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा 006a
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् 006c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 007a
नारदस्य च संवादमृषेर्नारायणस्य च 007c
नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः 008a
धर्मात्मजः सम्बभूव पितैवं मेऽभ्यभाषत 008c
कृते युगे महाराज पुरा स्वायम्भुवेऽन्तरे 009a
नरो नारायणश्चैव हरिः कृष्णस्तथैव च 009c
तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ 010a
बदर्याश्रममासाद्य शकटे कनकामये 010c
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् 011a
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसन्ततौ 011c
तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि 012a
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति 012c
नूनं तयोरनुमते हृदि हृच्छयचोदितः 013a
महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम् 013c
नारदः सुमहद्भूतं लोकान्सर्वानचीचरत् 014a
तं देशमगमद्राजन्बदर्याश्रममाशुगः 014c
तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् 015a
इदं तदास्पदं कृत्स्नं यस्मिल्ँलोकाः प्रतिष्ठिताः 015c
सदेवासुरगन्धर्वाः सर्षिकिन्नरलेलिहाः 016a
एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा 016c
धर्मस्य कुलसन्तानो महानेभिर्विवर्धितः 017a
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह 017c
नरनारायणाभ्यां च कृष्णेन हरिणा तथा 017e
तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे 018a
स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ 018c
एतौ हि परमं धाम कानयोराह्निकक्रिया 019a
पितरौ सर्वभूतानां दैवतं च यशस्विनौ 019c
कां देवतां नु यजतः पितॄन्वा कान्महामती 019e
इति सञ्चिन्त्य मनसा भक्त्या नारायणस्य ह 020a
सहसा प्रादुरभवत्समीपे देवयोस्तदा 020c
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः 021a
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः 021c
तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् 022a
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः 022c
नारायणं सन्निरीक्ष्य प्रसन्नेनान्तरात्मना 023a
नमस्कृत्वा महादेवमिदं वचनमब्रवीत् 023c
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे 024a
त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम् 024c
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् 024e
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः 025a
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् 025c
पिता माता च सर्वस्य जगतः शाश्वतो गुरुः 026a
कं त्वद्य यजसे देवं पितरं कं न विद्महे 026c
श्रीभगवानुवाच 027
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् 027a
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् 027c
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् 028a
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् 028c
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते 029a
त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः 029c
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम 029e
अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया 030a
तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः 030c
आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते 030e
नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः 031a
आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे 031c
तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी 032a
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् 032c
ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः 033a
मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः 033c
वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च 034a
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च 034c
एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः 035a
तस्य देवस्य मर्यादां पूजयन्ति सनातनीम् 035c
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः 036a
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः 036c
स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः 037a
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् 037c
ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च 038a
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः 038c
मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः 039a
स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते 039c
दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः 040a
एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् 040c
तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः 041a
भक्त्या सम्पूजयन्त्याद्यं गतिं चैषां ददाति सः 041c
ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः 042a
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत 042c
इति गुह्यसमुद्देशस्तव नारद कीर्तितः 043a
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः 043c