भीष्म उवाच 001
इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः 001a
प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान् 001c
तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः 002a
ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत् 002c
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते 003a
ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन् 003c
उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च 004a
प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत् 004c
द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः 005a
निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह 005c
न बभासे सहस्रांशुर्न जज्वाल च पावकः 006a
ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा 006c
ववर्ष वासवस्तोयं रसवच्च सुगन्धि च 007a
ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः 007c
स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसम्भवे 008a
संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे 008c
शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत 009a
उदीचीं दिशमाश्रित्य रुचिरे सन्ददर्श ह 009c
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः 010a
ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते 010c
अदृश्येतां महाराज तदद्भुतमिवाभवत् 010e
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः 011a
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः 011c
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम् 012a
गन्धर्वाणामृषीणां च ये च शैलनिवासिनः 012c
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम् 013a
साधु साध्विति तत्रासीन्नादः सर्वत्र भारत 013c
स पूज्यमानो देवैश्च गन्धर्वैर्ॠषिभिस्तथा 014a
यक्षराक्षससङ्घैश्च विद्याधरगणैस्तथा 014c
दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः 015a
आसीत्किल महाराज शुकाभिपतने तदा 015c
ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन् 016a
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम् 016c
तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः 017a
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः 017c
तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः 018a
उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह 018c
शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम् 019a
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा 019c
महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः 020a
निमेषान्तरमात्रेण शुकाभिपतनं ययौ 020c
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम् 021a
शशंसुर्ॠषयस्तस्मै कर्म पुत्रस्य तत्तदा 021c
ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा 022a
स्वयं पित्रा स्वरेणोच्चैस्त्रील्ँलोकाननुनाद्य वै 022c
शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः 023a
प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन् 023c
तत एकाक्षरं नादं भो इत्येव समीरयन् 024a
प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम् 024c
ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक् 025a
गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति 025c
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा 026a
गुणान्सन्त्यज्य शब्दादीन्पदमध्यगमत्परम् 026c
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः 027a
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन् 027c
ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः 028a
आसाद्य तमृषिं सर्वाः सम्भ्रान्ता गतचेतसः 028c
जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे 029a
वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम् 029c
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा 030a
सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह 030c
तं देवगन्धर्ववृतो महर्षिगणपूजितः 031a
पिनाकहस्तो भगवानभ्यागच्छत शङ्करः 031c
तमुवाच महादेवः सान्त्वपूर्वमिदं वचः 032a
पुत्रशोकाभिसन्तप्तं कृष्णद्वैपायनं तदा 032c
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह 033a
वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः 033c
स तथालक्षणो जातस्तपसा तव सम्भृतः 034a
मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः 034c
स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः 035a
दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि 035c
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः 036a
तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति 036c
छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा 037a
द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने 037c
सोऽनुनीतो भगवता स्वयं रुद्रेण भारत 038a
छायां पश्यन्समावृत्तः स मुनिः परया मुदा 038c
इति जन्म गतिश्चैव शुकस्य भरतर्षभ 039a
विस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि 039c
एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा 040a
व्यासश्चैव महायोगी सञ्जल्पेषु पदे पदे 040c
इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम् 041a
धारयेद्यः शमपरः स गच्छेत्परमां गतिम् 041c