भीष्म उवाच 001
गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत 001a
समे देशे विविक्ते च निःशलाक उपाविशत् 001c
धारयामास चात्मानं यथाशास्त्रं महामुनिः 002a
पादात्प्रभृतिगात्रेषु क्रमेण क्रमयोगवित् 002c
ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते 003a
पाणिपादं समाधाय विनीतवदुपाविशत् 003c
न तत्र पक्षिसङ्घातो न शब्दो नापि दर्शनम् 004a
यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे 004c
स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम् 005a
प्रजहास ततो हासं शुकः सम्प्रेक्ष्य भास्करम् 005c
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये 006a
महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम् 006c
ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा 007a
निवेदयामास तदा स्वं योगं परमर्षये 007c
दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन 008a
त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते 008c
नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः 009a
अभिवाद्य पुनर्योगमास्थायाकाशमाविशत् 009c
कैलासपृष्ठादुत्पत्य स पपात दिवं तदा 010a
अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः 010c
तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् 011a
ददृशुः सर्वभूतानि मनोमारुतरंहसम् 011c
व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् 012a
आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः 012c
तमेकमनसं यान्तमव्यग्रमकुतोभयम् 013a
ददृशुः सर्वभूतानि जङ्गमानीतराणि च 013c
यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा 014a
पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः 014c
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः 015a
ऋषयश्चैव संसिद्धाः परं विस्मयमागताः 015c
अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः 016a
अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते 016c
ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः 017a
भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत् 017c
शब्देनाकाशमखिलं पूरयन्निव सर्वतः 017e
तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः 018a
सम्भ्रान्तमनसो राजन्नासन्परमविस्मिताः 018c
पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः 018e
दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम् 019a
सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम् 019c
ततः समतिचक्राम मलयं नाम पर्वतम् 020a
उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवते 020c
ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् 020e
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे 021a
अचिरेणैव कालेन नभश्चरति चन्द्रवत् 021c
पितृशुश्रूषया सिद्धिं सम्प्राप्तोऽयमनुत्तमाम् 021e
पितृभक्तो दृढतपाः पितुः सुदयितः सुतः 022a
अनन्यमनसा तेन कथं पित्रा विवर्जितः 022c
उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित् 023a
उदैक्षत दिशः सर्वा वचने गतमानसः 023c
सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम् 024a
आलोकयामास तदा सरांसि सरितस्तथा 024c
ततो द्वैपायनसुतं बहुमानपुरःसरम् 025a
कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः 025c
अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् 026a
पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै 026c
ततः प्रतिवचो देयं सर्वैरेव समाहितैः 027a
एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ 027c
शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः 028a
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः 028c
यथाज्ञापयसे विप्र बाढमेवं भविष्यति 029a
ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम् 029c