नारद उवाच 001
सुखदुःखविपर्यासो यदा समुपपद्यते 001a
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् 001c
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति 002a
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् 002c
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः 003a
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः 003c
व्याधितस्य विवित्साभिस्त्रस्यतो जीवितैषिणः 004a
अवशस्य विनाशाय शरीरमपकृष्यते 004c
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव 005a
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः 005c
व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः 006a
जातं मर्त्यं जरयति निमेषं नावतिष्ठते 006c
सुखदुःखानि भूतानामजरो जरयन्नसौ 007a
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च 007c
अदृष्टपूर्वानादाय भावानपरिशङ्कितान् 008a
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः 008c
यो यमिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् 009a
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् 009c
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः 010a
दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः 010c
अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः 011a
आशीर्भिरप्यसंयुक्ता दृश्यन्ते सर्वकामिनः 011c
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः 012a
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते 012c
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति 013a
कश्चित्कर्मानुसृत्यान्यो न प्राप्यमधिगच्छति 013c
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः 014a
शुक्रमन्यत्र सम्भूतं पुनरन्यत्र गच्छति 014c
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा 015a
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते 015c
केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम् 016a
सिद्धौ प्रयतमानानां नैवाण्डमुपजायते 016c
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव 017a
आयुष्माञ्जायते पुत्रः कथं प्रेतः पितैव सः 017c
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः 018a
दश मासान्परिधृता जायन्ते कुलपांसनाः 018c
अपरे धनधान्यानि भोगांश्च पितृसञ्चितान् 019a
विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः 019c
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे 020a
उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते 020c
शीर्णं परशरीरेण निच्छवीकं शरीरिणम् 021a
प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् 021c
निर्दग्धं परदेहेन परदेहं चलाचलम् 022a
विनश्यन्तं विनाशान्ते नावि नावमिवाहितम् 022c
सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् 023a
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि 023c
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः 024a
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते 024c
गर्भमूत्रपुरीषाणां स्वभावनियता गतिः 025a
धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः 025c
स्रवन्ति ह्युदराद्गर्भा जायमानास्तथापरे 026a
आगमेन सहान्येषां विनाश उपपद्यते 026c
एतस्माद्योनिसम्बन्धाद्यो जीवन्परिमुच्यते 027a
प्रजां च लभते काञ्चित्पुनर्द्वन्द्वेषु मज्जति 027c
शतस्य सहजातस्य सप्तमीं दशमीं दशाम् 028a
प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः 028c
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः 029a
व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव 029c
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् 030a
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः 030c
ते चापि निपुणा वैद्याः कुशलाः सम्भृतौषधाः 031a
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः 031c
ते पिबन्तः कषायांश्च सर्पींषि विविधानि च 032a
दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः 032c
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः 033a
श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते 033c
घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः 034a
आक्रम्य रोग आदत्ते पशून्पशुपचो यथा 034c
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् 035a
स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा 035c
न धनेन न राज्येन नोग्रेण तपसा तथा 036a
स्वभावा व्यतिवर्तन्ते ये नियुक्ताः शरीरिषु 036c
न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिकाः 037a
नाप्रियं प्रतिपश्येयुरुत्थानस्य फलं प्रति 037c
उपर्युपरि लोकस्य सर्वो भवितुमिच्छति 038a
यतते च यथाशक्ति न च तद्वर्तते तथा 038c
ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च 039a
अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते 039c
क्लेशाः प्रतिनिवर्तन्ते केषाञ्चिदसमीक्षिताः 040a
स्वं स्वं च पुनरन्येषां न किञ्चिदभिगम्यते 040c
महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु 041a
वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः 041c
सर्वेषामृद्धिकामानामन्ये रथपुरःसराः 042a
मनुजाश्च शतस्त्रीकाः शतशो विधवाः स्त्रियः 042c
द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः 043a
इदमन्यत्परं पश्य मात्र मोहं करिष्यसि 043c
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज 044a
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज 044c
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम 045a
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः 045c
भीष्म उवाच 046
नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् 046a
सञ्चिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत 046c
पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्श्रमः 047a
किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् 047c
ततो मुहूर्तं सञ्चिन्त्य निश्चितां गतिमात्मनः 048a
परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् 048c
कथं त्वहमसङ्क्लिष्टो गच्छेयं परमां गतिम् 049a
नावर्तेयं यथा भूयो योनिसंसारसागरे 049c
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः 050a
सर्वसङ्गान्परित्यज्य निश्चितां मनसो गतिम् 050c
तत्र यास्यामि यत्रात्मा शमं मेऽधिगमिष्यति 051a
अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः 051c
न तु योगमृते शक्या प्राप्तुं सा परमा गतिः 052a
अवबन्धो हि मुक्तस्य कर्मभिर्नोपपद्यते 052c
तस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम् 053a
वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् 053c
न ह्येष क्षयमाप्नोति सोमः सुरगणैर्यथा 054a
कम्पितः पतते भूमिं पुनश्चैवाधिरोहति 054c
क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते 054e
रविस्तु सन्तापयति लोकान्रश्मिभिरुल्बणैः 055a
सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः 055c
अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम् 056a
अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना 056c
सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम् 057a
ऋषिभिः सह यास्यामि सौरं तेजोऽतिदुःसहम् 057c
आपृच्छामि नगान्नागान्गिरीनुर्वीं दिशो दिवम् 058a
देवदानवगन्धर्वान्पिशाचोरगराक्षसान् 058c
लोकेषु सर्वभूतानि प्रवेक्ष्यामि नसंशयः 059a
पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः 059c
अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम् 060a
तस्मादनुज्ञां सम्प्राप्य जगाम पितरं प्रति 060c
सोऽभिवाद्य महात्मानमृषिं द्वैपायनं मुनिम् 061a
शुकः प्रदक्षिणीकृत्य कृष्णमापृष्टवान्मुनिः 061c
श्रुत्वा ऋषिस्तद्वचनं शुकस्य प्रीतो महात्मा पुनराह चैनम् 062a
भो भोः पुत्र स्थीयतां तावदद्य यावच्चक्षुः प्रीणयामि त्वदर्थम् 062c
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः 063a
मोक्षमेवानुसञ्चिन्त्य गमनाय मनो दधे 063c
पितरं सम्परित्यज्य जगाम द्विजसत्तमः 063e