नारद उवाच 001
अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् 001a
निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते 001c
शोकस्थानसहस्राणि भयस्थानशतानि च 002a
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 002c
तस्मादनिष्टनाशार्थमितिहासं निबोध मे 003a
तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम् 003c
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च 004a
मनुष्या मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः 004c
द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत् 005a
ताननाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते 005c
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते 006a
अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते 006c
नार्थो न धर्मो न यशो योऽतीतमनुशोचति 007a
अप्यभावेन युज्येत तच्चास्य न निवर्तते 007c
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च 008a
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते 008c
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति 009a
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते 009c
नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु सन्ततिम् 010a
सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते 010c
दुःखोपघाते शारीरे मानसे वाप्युपस्थिते 011a
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तयेत् 011c
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् 012a
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते 012c
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः 013a
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् 013c
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः 014a
आरोग्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः 014c
न जानपदिकं दुःखमेकः शोचितुमर्हति 015a
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् 015c
सुखाद्बहुतरं दुःखं जीविते नात्र संशयः 016a
स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् 016c
परित्यजति यो दुःखं सुखं वाप्युभयं नरः 017a
अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः 017c
दुःखमर्था हि त्यज्यन्ते पालने न च ते सुखाः 018a
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तयेत् 018c
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः 019a
अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः 019c
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 020a
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 020c
अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् 021a
तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः 021c
निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति 022a
स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् 022c
भूतेष्वभावं सञ्चिन्त्य ये बुद्ध्वा तमसः परम् 023a
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् 023c
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् 024a
व्याघ्रः पशुमिवासाद्य मृत्युरादाय गच्छति 024c
अथाप्युपायं सम्पश्येद्दुःखस्य परिमोक्षणे 025a
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् 025c
शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च 026a
नोपभोगात्परं किञ्चिद्धनिनो वाधनस्य वा 026c
प्राक्सम्प्रयोगाद्भूतानां नास्ति दुःखमनामयम् 027a
विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः 027c
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा 028a
चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया 028c
प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च 029a
विचरेदसमुन्नद्धः स सुखी स च पण्डितः 029c
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः 030a
आत्मनैव सहायेन यश्चरेत्स सुखी भवेत् 030c