भीष्म उवाच 001
एतस्मिन्नन्तरे शून्ये नारदः समुपागमत् 001a
शुकं स्वाध्यायनिरतं वेदार्थान्वक्तुमीप्सितान् 001c
देवर्षिं तु शुको दृष्ट्वा नारदं समुपस्थितम् 002a
अर्घ्यपूर्वेण विधिना वेदोक्तेनाभ्यपूजयत् 002c
नारदोऽथाब्रवीत्प्रीतो ब्रूहि ब्रह्मविदां वर 003a
केन त्वां श्रेयसा तात योजयामीति हृष्टवत् 003c
नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत 004a
अस्मिल्ँलोके हितं यत्स्यात्तेन मां योक्तुमर्हसि 004c
नारद उवाच 005
तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम् 005a
सनत्कुमारो भगवानिदं वचनमब्रवीत् 005c
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः 006a
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् 006c
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता 007a
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् 007c
मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति 008a
नालं स दुःखमोक्षाय सङ्गो वै दुःखलक्षणम् 008c
सक्तस्य बुद्धिश्चलति मोहजालविवर्धिनी 009a
मोहजालावृतो दुःखमिह चामुत्र चाश्नुते 009c
सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः 010a
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ 010c
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् 011a
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः 011c
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् 012a
आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् 012c
सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत् 013a
यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम 013c
सर्वारम्भफलत्यागी निराशीर्निष्परिग्रहः 014a
येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः 014c
इन्द्रियैरिन्द्रियार्थेभ्यश्चरत्यात्मवशैरिह 015a
असज्जमानः शान्तात्मा निर्विकारः समाहितः 015c
आत्मभूतैरतद्भूतः सह चैव विनैव च 016a
स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति 016c
अदर्शनमसंस्पर्शस्तथासम्भाषणं सदा 017a
यस्य भूतैः सह मुने स श्रेयो विन्दते परम् 017c
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् 018a
नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् 018c
आकिञ्चन्यं सुसन्तोषो निराशीष्ट्वमचापलम् 019a
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः 019c
परिग्रहं परित्यज्य भव तात जितेन्द्रियः 020a
अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम् 020c
निरामिषा न शोचन्ति त्यजेहामिषमात्मनः 021a
परित्यज्यामिषं सौम्य दुःखतापाद्विमोक्ष्यसे 021c
तपोनित्येन दान्तेन मुनिना संयतात्मना 022a
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना 022c
गुणसङ्गेष्वनासक्त एकचर्यारतः सदा 023a
ब्राह्मणे नचिरादेव सुखमायात्यनुत्तमम् 023c
द्वन्द्वारामेषु भूतेषु य एको रमते मुनिः 024a
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति 024c
शुभैर्लभति देवत्वं व्यामिश्रैर्जन्म मानुषम् 025a
अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः 025c
तत्र मृत्युजरादुःखैः सततं समभिद्रुतः 026a
संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे 026c
अहिते हितसञ्ज्ञस्त्वमध्रुवे ध्रुवसञ्ज्ञकः 027a
अनर्थे चार्थसञ्ज्ञस्त्वं किमर्थं नावबुध्यसे 027c
संवेष्ट्यमानं बहुभिर्मोहतन्तुभिरात्मजैः 028a
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे 028c
अलं परिग्रहेणेह दोषवान्हि परिग्रहः 029a
कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् 029c
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः 030a
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव 030c
महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान् 031a
स्नेहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् 031c
कुटुम्बं पुत्रदारं च शरीरं द्रव्यसञ्चयाः 032a
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् 032c
यदा सर्वं परित्यज्य गन्तव्यमवशेन ते 033a
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि 033c
अविश्रान्तमनालम्बमपाथेयमदैशिकम् 034a
तमःकान्तारमध्वानं कथमेको गमिष्यसि 034c
न हि त्वा प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति 035a
सुकृतं दुष्कृतं च त्वा यास्यन्तमनुयास्यति 035c
विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् 036a
अर्थार्थमनुसार्यन्ते सिद्धार्थस्तु विमुच्यते 036c
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः 037a
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 037c
रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् 038a
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् 038c
क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम् 039a
त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत् 039c
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज 040a
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज 040c
त्यज धर्ममसङ्कल्पादधर्मं चाप्यहिंसया 041a
उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् 041c
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् 042a
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः 042c
जराशोकसमाविष्टं रोगायतनमातुरम् 043a
रजस्वलमनित्यं च भूतावासं समुत्सृज 043c
इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् 044a
महाभूतात्मकं सर्वं महद्यत्परमाणु यत् 044c
इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा 045a
इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः 045c
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः 046a
पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गुणः 046c
एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते 047a
त्रिवर्गोऽत्र सुखं दुःखं जीवितं मरणं तथा 047c
य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ 048a
पाराशर्येह बोद्धव्यं ज्ञानानां यच्च किञ्चन 048c
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः 049a
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् 049c
इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते 050a
लोके विततमात्मानं लोकं चात्मनि पश्यति 050c
परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति 051a
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा 051c
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते 052a
ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् 052c
लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते 052e
अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् 053a
अकर्तारममूर्तं च भगवानाह तीर्थवित् 053c
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः 054a
स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा 054c
ततः कर्म समादत्ते पुनरन्यन्नवं बहु 055a
तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः 055c
अजस्रमेव मोहार्तो दुःखेषु सुखसञ्ज्ञितः 056a
बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा 056c
ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह 057a
परिभ्रमति संसारं चक्रवद्बहुवेदनः 057c
स त्वं निवृत्तबन्धस्तु निवृत्तश्चापि कर्मतः 058a
सर्ववित्सर्वजित्सिद्धो भव भावविवर्जितः 058c
संयमेन नवं बन्धं निवर्त्य तपसो बलात् 059a
सम्प्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् 059c