भीष्म उवाच 001
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः 001a
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा 001c
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् 002a
तन्नो मनसि संरूढं करिष्यामस्तथा च तत् 002c
अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः 003a
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः 003c
शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने 004a
वेदाननेकधा कर्तुं यदि ते रुचितं विभो 004c
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः 005a
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् 005c
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते 006a
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम् 006c
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना 007a
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च 007c
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन् 008a
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा 008c
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः 009a
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः 009c
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् 010a
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् 010c
तं ददर्शाश्रमपदे नारदः सुमहातपाः 011a
अथैनमब्रवीत्काले मधुराक्षरया गिरा 011c
भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते 012a
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव 012c
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते 013a
रजसा तमसा चैव सोमः सोपप्लवो यथा 013c
न भ्राजते यथापूर्वं निषादानामिवालयः 014a
देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः 014c
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः 015a
विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा 015c
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् 016a
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण 016c
एतन्मनोनुकूलं मे भवानर्हति भाषितुम् 017a
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली 017c
त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम् 018a
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते 018c
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर 019a
वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः 019c
नारद उवाच 020
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् 020a
मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम् 020c
अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता 021a
विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः 021c
भीष्म उवाच 022
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् 022a
तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः 022c
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् 023a
स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव 023c
तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः 024a
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः 024c
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् 025a
शुको वारितमात्रस्तु कौतूहलसमन्वितः 025c
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् 026a
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् 026c
शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः 027a
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् 027c
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः 028a
तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः 028c
आदर्शे स्वामिव छायां पश्यस्यात्मानमात्मना 029a
न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय 029c
देवयानचरो विष्णोः पितृयानश्च तामसः 030a
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः 030c
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः 031a
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः 031c
तत्र देवगणाः साध्याः समभूवन्महाबलाः 032a
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः 032c
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः 033a
अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम् 033c
अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः 034a
पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् 034c
प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् 035a
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते 035c
प्रेरयत्यभ्रसङ्घातान्धूमजांश्चोष्मजांश्च यः 036a
प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः 036c
अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः 037a
आवहो नाम संवाति द्वितीयः श्वसनो नदन् 037c
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः 038a
अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः 038c
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् 039a
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः 039c
योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति 040a
उद्वहो नाम वर्षिष्ठस्त्रितीयः स सदागतिः 040c
समुह्यमाना बहुधा येन नीलाः पृथग्घनाः 041a
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः 041c
संहता येन चाविद्धा भवन्ति नदतां नदाः 042a
रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च 042c
योऽसौ वहति देवानां विमानानि विहायसा 043a
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः 043c
येन वेगवता रुग्णा रूक्षेणारुजता रसान् 044a
वायुना विहता मेघा न भवन्ति बलाहकाः 044c
दारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान् 045a
पञ्चमः स महावेगो विवहो नाम मारुतः 045c
यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा 046a
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति 046c
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः 047a
योनिरंशुसहस्रस्य येन भाति वसुन्धरा 047c
यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च 048a
षष्ठः परिवहो नाम स वायुर्जवतां वरः 048c
सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति 049a
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ 049c
सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया 050a
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते 050c
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे 051a
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः 051c
येन सृष्टः पराभूतो यात्येव न निवर्तते 052a
परावहो नाम परो वायुः स दुरतिक्रमः 052c
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः 053a
अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः 053c
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः 054a
कम्पितः सहसा तेन वायुनाभिप्रवायता 054c
विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः 055a
सहसोदीर्यते तात जगत्प्रव्यथते तदा 055c
तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति 056a
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् 056c
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः 057a
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा 057c