भीष्म उवाच 001
एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः 001a
आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना 001c
कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः 002a
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः 002c
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तदा 003a
हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम् 003c
तमप्सरोगणाकीर्णं गीतस्वननिनादितम् 004a
किन्नराणां समूहैश्च भृङ्गराजैस्तथैव च 004c
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः 005a
चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः 005c
राजहंससमूहैश्च हृष्टैः परभृतैस्तथा 005e
पक्षिराजो गरुत्मांश्च यं नित्यमधिगच्छति 006a
चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा 006c
यत्र नित्यं समायान्ति लोकस्य हितकाम्यया 006e
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना 007a
यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः 007c
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै 008a
यत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा 008c
योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः 009a
यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान् 009c
सोऽभ्युद्धरत्विमां शक्तिमथ वा कम्पयत्विति 010a
तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति 010c
अथ देवगणं सर्वं सम्भ्रान्तेन्द्रियमानसम् 011a
अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् 011c
किं न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् 011e
स नामृष्यत तं क्षेपमवैक्षत च पावकिम् 012a
स प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा 012c
कम्पयामास सव्येन पाणिना पुरुषोत्तमः 012e
शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा 013a
मेदिनी कम्पिता सर्वा सशैलवनकानना 013c
शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता 014a
रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना 014c
तां कम्पयित्वा भगवान्प्रह्रादमिदमब्रवीत् 015a
पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति 015c
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः 016a
जग्राह तां तस्य शक्तिं न चैनामप्यकम्पयत् 016c
नादं महान्तं मुक्त्वा स मूर्छितो गिरिमूर्धनि 017a
विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः 017c
यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः 018a
तपोऽतप्यत दुर्धर्षस्तात नित्यं वृषध्वजः 018c
पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः 019a
आदित्यबन्धनं नाम दुर्धर्षमकृतात्मभिः 019c
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः 020a
दशयोजनविस्तारमग्निज्वालासमावृतम् 020c
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् 021a
सर्वविघ्नान्प्रशमयन्महादेवस्य धीमतः 021c
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः 022a
देवान्सन्तापयंस्तत्र महादेवो धृतव्रतः 022c
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः 023a
विविक्ते पर्वततटे पाराशर्यो महातपाः 023c
वेदानध्यापयामास व्यासः शिष्यान्महातपाः 023e
सुमन्तुं च महाभागं वैशम्पायनमेव च 024a
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् 024c
एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः 025a
तत्राश्रमपदं पुण्यं ददर्श पितुरुत्तमम् 025c
आरणेयो विशुद्धात्मा नभसीव दिवाकरः 025e
अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् 026a
ददर्श सुतमायान्तं दिवाकरसमप्रभम् 026c
असज्जमानं वृक्षेषु शैलेषु विषमेषु च 027a
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् 027c
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः 028a
यथोपजोषं तैश्चापि समागच्छन्महामुनिः 028c
ततो निवेदयामास पित्रे सर्वमशेषतः 029a
शुको जनकराजेन संवादं प्रीतमानसः 029c
एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान् 030a
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः 030c
ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे 031a
वेदाध्ययनसम्पन्नाः शान्तात्मानो जितेन्द्रियाः 031c
वेदेषु निष्ठां सम्प्राप्य साङ्गेष्वतितपस्विनः 032a
अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् 032c
महता श्रेयसा युक्ता यशसा च स्म वर्धिताः 033a
एकं त्विदानीमिच्छामो गुरुणानुग्रहं कृतम् 033c
इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच ह 034a
उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया 034c
एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः 035a
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् 035c
ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम् 036a
यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम 036c
काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा 037a
षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः 037c
चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः 038a
इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः 038c
शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् 039a
पराशरात्मजो धीमान्परलोकार्थचिन्तकः 039c
उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः 039e
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत् 040a
ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति 040c
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् 041a
नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि 041c
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः 042a
नापरीक्षितचारित्रे विद्या देया कथञ्चन 042c
यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः 043a
परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः 043c
न नियोज्याश्च वः शिष्या अनियोगे महाभये 044a
यथामति यथापाठं तथा विद्या फलिष्यति 044c
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु 045a
श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः 045c
वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् 046a
स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयम्भुवा 046c
यो निर्वदेत सम्मोहाद्ब्राह्मणं वेदपारगम् 047a
सोऽपध्यानाद्ब्राह्मणस्य पराभूयादसंशयम् 047c
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति 048a
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति 048c
एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति 049a
उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत् 049c