भीष्म उवाच 001
ततः स राजा जनको मन्त्रिभिः सह भारत 001a
पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च 001c
आसनं च पुरस्कृत्य रत्नानि विविधानि च 002a
शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्यगात् 002c
स तदासनमादाय बहुरत्नविभूषितम् 003a
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् 003c
पुरोधसा सङ्गृहीतं हस्तेनालभ्य पार्थिवः 004a
प्रददौ गुरुपुत्राय शुकाय परमार्चितम् 004c
तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजयत् 005a
पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत् 005c
स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि 005e
प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः 006a
गां चैव समनुज्ञाय राजानमनुमान्य च 006c
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् 007a
अनामयं च राजेन्द्र शुकः सानुचरस्य ह 007c
अनुज्ञातः स तेनाथ निषसाद सहानुगः 008a
उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः 008c
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः 009a
किमागमनमित्येव पर्यपृच्छत पार्थिवः 009c
शुक उवाच 010
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः 010a
विदेहराजो याज्यो मे जनको नाम विश्रुतः 010c
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः 011a
प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् 011c
सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः 012a
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि 012c
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः 013a
कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा 013c
जनक उवाच 014
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु 014a
कृतोपनयनस्तात भवेद्वेदपरायणः 014c
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो 015a
देवतानां पितॄणां चाप्यनृणश्चानसूयकः 015c
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च 016a
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः 016c
समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् 017a
अनसूयुर्यथान्यायमाहिताग्निस्तथैव च 017c
उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् 018a
तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः 018c
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् 019a
निर्द्वन्द्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् 019c
शुक उवाच 020
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते 020a
किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च 020c
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति 021a
यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप 021c
जनक उवाच 022
न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् 022a
न विना गुरुसम्बन्धं ज्ञानस्याधिगमः स्मृतः 022c
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते 023a
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् 023c
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् 024a
पूर्वैराचरितो धर्मश्चातुराश्रम्यसङ्कथः 024c
अनेन क्रमयोगेन बहुजातिषु कर्मणा 025a
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते 025c
भावितैः कारणैश्चायं बहुसंसारयोनिषु 026a
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे 026c
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः 027a
त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः 027c
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् 028a
सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना 028c
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि 029a
सम्पश्यन्नोपलिप्येत जले वारिचरो यथा 029c
पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुते 030a
विहाय देहं निर्मुक्तो निर्द्वन्द्वः प्रशमं गतः 030c
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना 031a
धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः 031c
ज्योतिरात्मनि नान्यत्र रतं तत्रैव चैव तत् 032a
स्वयं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा 032c
न बिभेति परो यस्मान्न बिभेति पराच्च यः 033a
यश्च नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा 033c
यदा भावं न कुरुते सर्वभूतेषु पापकम् 034a
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा 034c
संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् 035a
त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते 035c
यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् 036a
समो भवति निर्द्वन्द्वो ब्रह्म सम्पद्यते तदा 036c
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति 037a
काञ्चनं चायसं चैव सुखदुःखे तथैव च 037c
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम् 038a
जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा 038c
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः 039a
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा 039c
तमःपरिगतं वेश्म यथा दीपेन दृश्यते 040a
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् 040c
एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतां वर 041a
यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान् 041c
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः 042a
गुरोस्तव प्रसादेन तव चैवोपशिक्षया 042c
तस्यैव च प्रसादेन प्रादुर्भूतं महामुने 043a
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम 043c
अधिकं तव विज्ञानमधिका च गतिस्तव 044a
अधिकं च तवैश्वर्यं तच्च त्वं नावबुध्यसे 044c
बाल्याद्वा संशयाद्वापि भयाद्वाप्यविमोक्षजात् 045a
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् 045c
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः 046a
विमुच्य हृदयग्रन्थीनासादयति तां गतिम् 046c
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः 047a
व्यवसायादृते ब्रह्मन्नासादयति तत्परम् 047c
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा 048a
नौत्सुक्यं नृत्तगीतेषु न राग उपजायते 048c
न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम् 049a
पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् 049c
अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः 050a
आस्थितं परमं मार्गमक्षयं तमनामयम् 050c
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः 051a
तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि 051c