भीष्म उवाच 001
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् 001a
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः 001c
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे 002a
यथा मे मनसः शान्तिः परमा सम्भवेत्प्रभो 002c
श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम् 003a
अधीष्व पुत्र मोक्षं वै धर्मांश्च विविधानपि 003c
पितुर्नियोगाज्जग्राह शुको ब्रह्मविदां वरः 004a
योगशास्त्रं च निखिलं कापिलं चैव भारत 004c
स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम् 005a
मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम् 005c
उवाच गच्छेति तदा जनकं मिथिलेश्वरम् 006a
स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः 006c
पितुर्नियोगादगमन्मैथिलं जनकं नृपम् 007a
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् 007c
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः 008a
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै 008c
आर्जवेणैव गन्तव्यं न सुखान्वेषिणा पथा 009a
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः 009c
अहङ्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे 010a
स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयम् 010c
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः 011a
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया 011c
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः 012a
पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम् 012c
स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च 013a
बहुव्यालमृगाकीर्णा विविधाश्चाटवीस्तथा 013c
मेरोर्हरेश्च द्वे वर्षे वर्षं हैमवतं तथा 014a
क्रमेणैव व्यतिक्रम्य भारतं वर्षमासदत् 014c
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान् 015a
आर्यावर्तमिमं देशमाजगाम महामुनिः 015c
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन् 016a
अध्वानं सोऽतिचक्राम खेऽचरः खे चरन्निव 016c
पत्तनानि च रम्याणि स्फीतानि नगराणि च 017a
रत्नानि च विचित्राणि शुकः पश्यन्न पश्यति 017c
उद्यानानि च रम्याणि तथैवायतनानि च 018a
पुण्यानि चैव तीर्थानि सोऽतिक्रम्य तथाध्वनः 018c
सोऽचिरेणैव कालेन विदेहानाससाद ह 019a
रक्षितान्धर्मराजेन जनकेन महात्मना 019c
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान् 020a
पल्लीघोषान्समृद्धांश्च बहुगोकुलसङ्कुलान् 020c
स्फीतांश्च शालियवसैर्हंससारससेवितान् 021a
पद्मिनीभिश्च शतशः श्रीमतीभिरलङ्कृतान् 021c
स विदेहानतिक्रम्य समृद्धजनसेवितान् 022a
मिथिलोपवनं रम्यमाससाद महर्द्धिमत् 022c
हस्त्यश्वरथसङ्कीर्णं नरनारीसमाकुलम् 023a
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः 023c
मनसा तं वहन्भारं तमेवार्थं विचिन्तयन् 024a
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह 024c
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः 025a
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह 025c
स राजमार्गमासाद्य समृद्धजनसङ्कुलम् 026a
पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह 026c
तत्रापि द्वारपालास्तमुग्रवाचो न्यषेधयन् 027a
तथैव च शुकस्तत्र निर्मन्युः समतिष्ठत 027c
न चातपाध्वसन्तप्तः क्षुत्पिपासाश्रमान्वितः 028a
प्रताम्यति ग्लायति वा नापैति च तथातपात् 028c
तेषां तु द्वारपालानामेकः शोकसमन्वितः 029a
मध्यङ्गतमिवादित्यं दृष्ट्वा शुकमवस्थितम् 029c
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः 030a
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः 030c
तत्रासीनः शुकस्तात मोक्षमेवानुचिन्तयन् 031a
छायायामातपे चैव समदर्शी महाद्युतिः 031c
तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः 032a
प्रावेशयत्ततः कक्ष्यां तृतीयां राजवेश्मनः 032c
तत्रान्तःपुरसम्बद्धं महच्चैत्ररथोपमम् 033a
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् 033c
तद्दर्शयित्वा स शुकं मन्त्री काननमुत्तमम् 034a
अर्हमासनमादिश्य निश्चक्राम ततः पुनः 034c
तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः 035a
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः 035c
संलापोल्लापकुशला नृत्तगीतविशारदाः 036a
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः 036c
कामोपचारकुशला भावज्ञाः सर्वकोविदाः 037a
परं पञ्चाशतो नार्यो वारमुख्याः समाद्रवन् 037c
पाद्यादीनि प्रतिग्राह्य पूजया परयार्च्य च 038a
देशकालोपपन्नेन साध्वन्नेनाप्यतर्पयन् 038c
तस्य भुक्तवतस्तात तदन्तःपुरकाननम् 039a
सुरम्यं दर्शयामासुरेकैकश्येन भारत 039c
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चैव ताः शुकम् 040a
उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस्तदा 040c
आरणेयस्तु शुद्धात्मा त्रिसन्देहस्त्रिकर्मकृत् 041a
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति 041c
तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम् 042a
स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः 042c
पादशौचं तु कृत्वैव शुकः सन्ध्यामुपास्य च 043a
निषसादासने पुण्ये तमेवार्थं विचिन्तयन् 043c
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः 044a
मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः 044c
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम् 045a
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत 045c
अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः 046a
तां च रात्रिं नृपकुले वर्तयामास भारत 046c