भीष्म उवाच 001
स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः 001a
अरणीं त्वथ सङ्गृह्य ममन्थाग्निचिकीर्षया 001c
अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा 002a
घृताचीं नामाप्सरसमपश्यद्भगवानृषिः 002c
ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः 003a
अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर 003c
सा च कृत्वा तदा व्यासं कामसंविग्नमानसम् 004a
शुकी भूत्वा महाराज घृताची समुपागमत् 004c
स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् 005a
शरीरजेनानुगतः सर्वगात्रातिगेन ह 005c
स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः 006a
न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः 006c
भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः 006e
यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया 007a
अरण्यामेव सहसा तस्य शुक्रमवापतत् 007c
सोऽविशङ्केन मनसा तथैव द्विजसत्तमः 008a
अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप 008c
शुक्रे निर्मथ्यमाने तु शुको जज्ञे महातपाः 009a
परमर्षिर्महायोगी अरणीगर्भसम्भवः 009c
यथाध्वरे समिद्धोऽग्निर्भाति हव्यमुपात्तवान् 010a
तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा 010c
बिभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम् 011a
बभौ तदा भावितात्मा विधूमोऽग्निरिव ज्वलन् 011c
तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर 012a
स्वरूपिणी तदाभ्येत्य स्नापयामास वारिणा 012c
अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह 013a
पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः 013c
जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः 014a
देवदुन्दुभयश्चैव प्रावाद्यन्त महास्वनाः 014c
विश्वावसुश्च गन्धर्वस्तथा तुम्बुरुनारदौ 015a
हाहाहूहू च गन्धर्वौ तुष्टुवुः शुकसम्भवम् 015c
तत्र शक्रपुरोगाश्च लोकपालाः समागताः 016a
देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च 016c
दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः 017a
जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् 017c
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः 018a
जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा 018c
तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम् 019a
ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो 019c
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः 020a
प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत 020c
आरणेयस्तथा दिव्यं प्राप्य जन्म महाद्युतिः 021a
तत्रैवोवास मेधावी व्रतचारी समाहितः 021c
उत्पन्नमात्रं तं वेदाः सरहस्याः ससङ्ग्रहाः 022a
उपतस्थुर्महाराज यथास्य पितरं तथा 022c
बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित् 023a
उपाध्यायं महाराज धर्ममेवानुचिन्तयन् 023c
सोऽधीत्य वेदानखिलान्सरहस्यान्ससङ्ग्रहान् 024a
इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभो 024c
गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः 025a
उग्रं तपः समारेभे ब्रह्मचारी समाहितः 025c
देवतानामृषीणां च बाल्येऽपि स महातपाः 026a
सम्मन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा 026c
न त्वस्य रमते बुद्धिराश्रमेषु नराधिप 027a
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः 027c