युधिष्ठिर उवाच 001
कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः 001a
सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह 001c
कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः 002a
न ह्यस्य जननीं विद्म जन्म चाग्र्यं महात्मनः 002c
कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः 003a
यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित् 003c
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते 004a
न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम् 004c
माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह 005a
यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह 005c
भीष्म उवाच 006
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः 006a
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् 006c
तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव 007a
तदिन्द्रियाणि संयम्य तपो भवति नान्यथा 007c
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् 008a
सन्नियम्य तु तान्येव सिद्धिं प्राप्नोति मानवः 008c
अश्वमेधसहस्रस्य वाजपेयशतस्य च 009a
योगस्य कलया तात न तुल्यं विद्यते फलम् 009c
अत्र ते वर्तयिष्यामि जन्मयोगफलं यथा 010a
शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः 010c
मेरुशृङ्गे किल पुरा कर्णिकारवनायुते 011a
विजहार महादेवो भीमैर्भूतगणैर्वृतः 011c
शैलराजसुता चैव देवी तत्राभवत्पुरा 012a
तत्र दिव्यं तपस्तेपे कृष्णद्वैपायनः प्रभुः 012c
योगेनात्मानमाविश्य योगधर्मपरायणः 013a
धारयन्स तपस्तेपे पुत्रार्थं कुरुसत्तम 013c
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चाभिभो 014a
वीर्येण सम्मितः पुत्रो मम भूयादिति स्म ह 014c
सङ्कल्पेनाथ सोऽनेन दुष्प्रापेणाकृतात्मभिः 015a
वरयामास देवेशमास्थितस्तप उत्तमम् 015c
अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः 016a
आराधयन्महादेवं बहुरूपमुमापतिम् 016c
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा 017a
लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह 017c
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ 018a
मरुतो मारुतश्चैव सागराः सरितस्तथा 018c
अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ 019a
विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः 019c
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् 020a
धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः 020c
तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसङ्कुले 021a
आस्थितः परमं योगमृषिः पुत्रार्थमुद्यतः 021c
न चास्य हीयते वर्णो न ग्लानिरुपजायते 022a
त्रयाणामपि लोकानां तदद्भुतमिवाभवत् 022c
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः 023a
प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः 023c
मार्कण्डेयो हि भगवानेतदाख्यातवान्मम 024a
स देवचरितानीह कथयामास मे सदा 024c
ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः 025a
अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः 025c
एवंविधेन तपसा तस्य भक्त्या च भारत 026a
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् 026c
उवाच चैनं भगवांस्त्र्यम्बकः प्रहसन्निव 027a
एवंविधस्ते तनयो द्वैपायन भविष्यति 027c
यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम् 028a
यथा च खं तथा शुद्धो भविष्यति सुतो महान् 028c
तद्भावभावी तद्बुद्धिस्तदात्मा तदपाश्रयः 029a
तेजसावृत्य लोकांस्त्रीन्यशः प्राप्स्यति केवलम् 029c