युधिष्ठिर उवाच 001
कथं निर्वेदमापन्नः शुको वैयासकिः पुरा 001a
एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे 001c
भीष्म उवाच 002
प्राकृतेन सुवृत्तेन चरन्तमकुतोभयम् 002a
अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् 002c
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ 003a
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः 003c
सत्यमार्जवमक्रोधमनसूयां दमं तपः 004a
अहिंसां चानृशंस्यं च विधिवत्परिपालय 004c
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् 005a
देवतातिथिशेषेण यात्रां प्राणस्य संश्रय 005c
फेनपात्रोपमे देहे जीवे शकुनिवत्स्थिते 006a
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक 006c
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु 007a
अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे 007c
गण्यमानेषु वर्षेषु क्षीयमाणे तथायुषि 008a
जीविते शिष्यमाणे च किमुत्थाय न धावसि 008c
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् 009a
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः 009c
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः 010a
अपथा गच्छतां तेषामनुयातापि पीड्यते 010c
ये तु तुष्टाः सुनियताः सत्यागमपरायणाः 011a
धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च 011c
उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम् 012a
नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै 012c
अद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः 013a
सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः 013c
धर्मनिःश्रेणिमास्थाय किञ्चित्किञ्चित्समारुह 014a
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे 014c
नास्तिकं भिन्नमर्यादं कूलपातमिवास्थिरम् 015a
वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धतम् 015c
कामं क्रोधं च मृत्युं च पञ्चेन्द्रियजलां नदीम् 016a
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर 016c
मृत्युनाभ्याहते लोके जरया परिपीडिते 017a
अमोघासु पतन्तीषु धर्मयानेन सन्तर 017c
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा 018a
निर्वृतिं लभसे कस्मादकस्मान्मृत्युनाशितः 018c
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् 019a
वृकीवोरणमासाद्य मृत्युरादाय गच्छति 019c
क्रमशः सञ्चितशिखो धर्मबुद्धिमयो महान् 020a
अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् 020c
सम्पतन्देहजालानि कदाचिदिह मानुषे 021a
ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय 021c
ब्राह्मणस्य हि देहोऽयं न कामार्थाय जायते 022a
इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम् 022c
ब्राह्मण्यं बहुभिरवाप्यते तपोभिस्तल्लब्ध्वा न परिपणेन हेडितव्यम् 023a
स्वाध्याये तपसि दमे च नित्ययुक्तः क्षेमार्थी कुशलपरः सदा यतस्व 023c
अव्यक्तप्रकृतिरयं कलाशरीरः सूक्ष्मात्मा क्षणत्रुटिशो निमेषरोमा 024a
ऋत्वास्यः समबलशुक्लकृष्णनेत्रो मांसाङ्गो द्रवति वयोहयो नराणाम् 024c
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं गच्छन्तं सततमिहाव्यपेक्षमाणम् 025a
चक्षुस्ते यदि न परप्रणेतृनेयं धर्मे ते भवतु मनः परं निशम्य 025c
येऽमी तु प्रचलितधर्मकामवृत्ताः क्रोशन्तः सततमनिष्टसम्प्रयोगाः 026a
क्लिश्यन्ते परिगतवेदनाशरीरा बह्वीभिः सुभृशमधर्मवासनाभिः 026c
राजा धर्मपरः सदा शुभगोप्ता समीक्ष्य सुकृतिनां दधाति लोकान् 027a
बहुविधमपि चरतः प्रदिशति सुखमनुपगतं निरवद्यम् 027c
श्वानो भीषणायोमुखानि वयांसि वडगृध्रकुलपक्षिणां च सङ्घाः 028a
नरां कदने रुधिरपा गुरुवचननुदमुपरतं विशसन्ति 028c
मर्यादा नियताः स्वयम्भुवा य इहेमाः प्रभिनत्ति दशगुणा मनोनुगत्वात् 029a
निवसति भृशमसुखं पितृविषयविपिनमवगाह्य स पापः 029c
यो लुब्धः सुभृशं प्रियानृतश्च मनुष्यः सततनिकृतिवञ्चनारतिः स्यात् 030a
उपनिधिभिरसुखकृत्स परमनिरयगो भृशमसुखमनुभवति दुष्कृतकर्मा 030c
उष्णां वैतरणीं महानदीमवगाढोऽसिपत्रवनभिन्नगात्रः 031a
परशुवनशयो निपतितो वसति च महानिरये भृशार्तः+ 031c
महापदानि कत्थसे न चाप्यवेक्षसे परम् 032a
चिरस्य मृत्युकारिकामनागतां न बुध्यसे 032c
प्रयास्यतां किमास्यते समुत्थितं महद्भयम् 033a
अतिप्रमाथि दारुणं सुखस्य संविधीयताम् 033c
पुरा मृतः प्रणीयसे यमस्य मृत्युशासनात् 034a
तदन्तिकाय दारुणैः प्रयत्नमार्जवे कुरु 034c
पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् 035a
तवेह जीवितं यमो न चास्ति तस्य वारकः 035c
पुरा विवाति मारुतो यमस्य यः पुरःसरः 036a
पुरैक एव नीयसे कुरुष्व साम्परायिकम् 036c
पुरा सहिक्क एव ते प्रवाति मारुतोऽन्तकः 037a
पुरा च विभ्रमन्ति ते दिशो महाभयागमे 037c
स्मृतिश्च सन्निरुध्यते पुरा तवेह पुत्रक 038a
समाकुलस्य गच्छतः समाधिमुत्तमं कुरु 038c
कृताकृते शुभाशुभे प्रमादकर्मविप्लुते 039a
स्मरन्पुरा न तप्यसे निधत्स्व केवलं निधिम् 039c
पुरा जरा कलेवरं विजर्जरीकरोति ते 040a
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् 040c
पुरा शरीरमन्तको भिनत्ति रोगसायकैः 041a
प्रसह्य जीवितक्षये तपो महत्समाचर 041c
पुरा वृका भयङ्करा मनुष्यदेहगोचराः 042a
अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने 042c
पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै 043a
पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि 043c
पुरा कुसङ्गतानि ते सुहृन्मुखाश्च शत्रवः 044a
विचालयन्ति दर्शनाद्घटस्व पुत्र यत्परम् 044c
धनस्य यस्य राजतो भयं न चास्ति चौरतः 045a
मृतं च यन्न मुञ्चति समर्जयस्व तद्धनम् 045c
न तत्र संविभज्यते स्वकर्मभिः परस्परम् 046a
यदेव यस्य यौतकं तदेव तत्र सोऽश्नुते 046c
परत्र येन जीव्यते तदेव पुत्र दीयताम् 047a
धनं यदक्षयं ध्रुवं समर्जयस्व तत्स्वयम् 047c
न यावदेव पच्यते महाजनस्य यावकम् 048a
अपक्व एव यावके पुरा प्रणीयसे त्वर 048c
न मातृपितृबान्धवा न संस्तुतः प्रियो जनः 049a
अनुव्रजन्ति सङ्कटे व्रजन्तमेकपातिनम् 049c
यदेव कर्म केवलं स्वयं कृतं शुभाशुभम् 050a
तदेव तस्य यौतकं भवत्यमुत्र गच्छतः 050c
हिरण्यरत्नसञ्चयाः शुभाशुभेन सञ्चिताः 051a
न तस्य देहसङ्क्षये भवन्ति कार्यसाधकाः 051c
परत्रगामिकस्य ते कृताकृतस्य कर्मणः 052a
न साक्षिरात्मना समो नृणामिहास्ति कश्चन 052c
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः 053a
प्रपश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः 053c
इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः 054a
त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः 054c
यथानिशेषु सर्वतःस्पृशत्सु सर्वदारिषु 055a
प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय 055c
अनेकपारिपन्थिके विरूपरौद्ररक्षिते 056a
स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति 056c
न तत्र संविभज्यते स्वकर्मणा परस्परम् 057a
यथाकृतं स्वकर्मजं तदेव भुज्यते फलम् 057c
यथाप्सरोगणाः फलं सुखं महर्षिभिः सह 058a
तथाप्नुवन्ति कर्मतो विमानकामगामिनः 058c
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः 059a
तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः 059c
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः 060a
व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः 060c
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे 061a
अबुद्धिमोहनं पुनः प्रभुर्विना न यावकम् 061c
गता द्विरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः 062a
कुरुष्व धर्मसञ्चयं वयो हि तेऽतिवर्तते 062c
पुरा करोति सोऽन्तकः प्रमादगोमुखं दमम् 063a
यथागृहीतमुत्थितं त्वरस्व धर्मपालने 063c
यदा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि 064a
तथा गतिं गमिष्यतः किमात्मना परेण वा 064c
यदेकपातिनां सतां भवत्यमुत्र गच्छताम् 065a
भयेषु साम्परायिकं निधत्स्व तं महानिधिम् 065c
सकूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् 066a
न सन्ति यस्य वारकाः कुरुष्व धर्मसन्निधिम् 066c
इदं निदर्शनं मया तवेह पुत्र सम्मतम् 067a
स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत् 067c
दधाति यः स्वकर्मणा धनानि यस्य कस्यचित् 068a
अबुद्धिमोहजैर्गुणैः शतैक एव युज्यते 068c
श्रुतं समर्थमस्तु ते प्रकुर्वतः शुभाः क्रियाः 069a
तदेव तत्र दर्शनं कृतज्ञमर्थसंहितम् 069c
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः 070a
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः 070c
किं ते धनेन किं बन्धुभिस्ते किं ते पुत्रैः पुत्रक यो मरिष्यसि 071a
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताश्च सर्वे 071c
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् 072a
को हि तद्वेद कस्याद्य मृत्युसेना निवेक्ष्यते 072c
अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः 073a
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा 073c
नास्तिकान्निरनुक्रोशान्नरान्पापमतौ स्थितान् 074a
वामतः कुरु विश्रब्धं परं प्रेप्सुरतन्द्रितः 074c
एवमभ्याहते लोके कालेनोपनिपीडिते 075a
सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु 075c
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः 076a
सम्यक्स धर्मं कृत्वेह परत्र सुखमेधते 076c
न देहभेदे मरणं विजानतां न च प्रणाशः स्वनुपालिते पथि 077a
धर्मं हि यो वर्धयते स पण्डितो य एव धर्माच्च्यवते स मुह्यति 077c
प्रयुक्तयोः कर्मपथि स्वकर्मणोः फलं प्रयोक्ता लभते यथाविधि 078a
निहीनकर्मा निरयं प्रपद्यते; त्रिविष्टपं गच्छति धर्मपारगः 078c
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् 079a
तथात्मानं समादध्याद्भ्रश्येत न पुनर्यथा 079c
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी 080a
तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः 080c
यस्य नोपहता बुद्धिर्निश्चयेष्ववलम्बते 081a
स्वर्गे कृतावकाशस्य तस्य नास्ति महद्भयम् 081c
तपोवनेषु ये जातास्तत्रैव निधनं गताः 082a
तेषामल्पतरो धर्मः कामभोगमजानताम् 082c
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् 083a
न तेन किञ्चिन्न प्राप्तं तन्मे बहुमतं फलम् 083c
मातापितृसहस्राणि पुत्रदारशतानि च 084a
अनागतान्यतीतानि कस्य ते कस्य वा वयम् 084c
न तेषां भवता कार्यं न कार्यं तव तैरपि 085a
स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति 085c
इह लोके हि धनिनः परोऽपि स्वजनायते 086a
स्वजनस्तु दरिद्राणां जीवतामेव नश्यति 086c
सञ्चिनोत्यशुभं कर्म कलत्रापेक्षया नरः 087a
ततः क्लेशमवाप्नोति परत्रेह तथैव च 087c
पश्य त्वं छिद्रभूतं हि जीवलोकं स्वकर्मणा 088a
तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम् 088c
तदेतत्सम्प्रदृश्यैव कर्मभूमिं प्रविश्य ताम् 089a
शुभान्याचरितव्यानि परलोकमभीप्सता 089c
मासर्तुसञ्ज्ञापरिवर्तकेन सूर्याग्निना रात्रिदिवेन्धनेन 090a
स्वकर्मनिष्ठाफलसाक्षिकेण भूतानि कालः पचति प्रसह्य 090c
धनेन किं यन्न ददाति नाश्नुते बलेन किं येन रिपून्न बाधते 091a
श्रुतेन किं येन न धर्ममाचरेत्किमात्मना यो न जितेन्द्रियो वशी 091c
इदं द्वैपायनवचो हितमुक्तं निशम्य तु 092a
शुको गतः परित्यज्य पितरं मोक्षदेशिकम् 092c